पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
स्पष्टाधिकारः

 वा० भा०-यादृशे केन्द्रे गतिः पूर्ण भवति तादृशस्य केन्द्रस्य भागाः सुथार्थ पाठेन पठिताः ॥ यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्णं भवति । अतश्चक्राच्च्युतास्तेऽवक्रभागा भवन्ती त्युपपन्नम् ॥ मार्गभागाः १९७॥२१५॥२३५॥१९५॥२४७ ॥४१॥

 वा० वा०-इदानीं वक्रतासंभवमाह-द्राक्केन्द्रभागैरिति। यादृशै: केन्द्रभागैगतिः शून्यं भवति ते सुखार्थमुक्ताः । यतो वक्रारम्भे तत्त्यागे च गतिः शून्यमिति छेद्यकादौ प्रत्यक्षं दृश्यते ॥ ४१ ॥

इदानीमुदयास्तसंभवमाह--

प्राच्यामुदेति क्षितिजोऽटदसैः २८
शक्रः १४ गुरुः सप्तकुभिश्च १७ मन्दः १ ।।
स्वस्वोदयांशोनितचक्रभागै-३३२ ।। ३४६ ।। ३४३ ।।
स्त्रयो व्रजन्त्यस्तमयं प्रतीच्याम् ।४२॥

खाक्षैः ५० जिनैः २४ ज्ञसितयोरुदयः प्रतीच्या
मस्तश्च पश्चतिथिभिः १५५ मुनिसप्तभूभिः १७७ ।।
प्रागुद्गमः शरनखैः २०५ त्रिधृतिप्रमाणे-१८३
रस्तश्च तत्र दशवन्हिभि ३१० रङ्गदेवैः ३३६ ॥४३॥


लब्धस्य धनुषो भागा वियदङ्कसमन्विताः ।
वक्रारम्भे ग्रहस्य स्युः शीघ्रकेन्द्रलवाः स्फुटाः ।

अत्र कस्यचित् पद्ये

तुङ्ग कार्मुकमौविकेरितशरो गत्वा निवृत्ततो यथा
प्राक्स्थानादपरत्र वायुवशतो गच्छत्यवेगस्तथा ।
कक्षावृत्तधनुर्गुणेरितखगस्तद्वच्चलोच्चं गतो
नीचं याति यदा तदापरगतिर्वक्री स एवोच्यते ॥
कक्षापदच्युतखगा इव नीचसज्ञातू पूर्वात्ममार्गमपहाय चरन्ति वक्रम् ।
चेदित्यहो पृथुलबिम्बविलोकन कि सर्वोऽपि रूपमखिल विपदस्य पश्येत्।

१.अत्र बापूदेवोत कुजगुरुशनीनां कालांशेभ्यस्तदुदयकेन्द्रांशानयनम् ।

पूर्व कर्ण त्रिभज्यान्त्यफलज्यक्यं प्रकल्पयेत् ।
त्रिज्या कालांशजीवाप्ता हरस्तेनोद्धृतं श्रवः ॥
आप्तिः स्याच्चलकेन्द्रस्य जीवा स्थूला ततः श्रुतिः ।
तस्याः केन्द्रज्यका चैवमसकृच्चेत् स्फुटा भवेत् ॥
तस्याश्चापांशकाः शीघ्रकेन्द्रांशा ह्युदयाभिधाः ।
महीजजीवमन्दानां विज्ञेया गणकै: खलु ॥