वा० वा०-अधुना पूर्वपद्योत गतिफल दूषयति-धीवृद्धिदे चलफलमिति । अत्रापि तद्वाक्यम्--
'तद्वजितास्वचलतुङ्गगतिः स्वभोग्य खण्डाहता शरयमाश्विहृता हता च । स्वेन स्फुटेन गुणकेन खनागभत्ता त्रिज्याहता श्रुतिहृताशुफल गते: स्यादिति" । अत्र भोग्यखण्डशब्देन ग्रहकेन्द्रदोज्याकरणे। यद्भोग्यखण्ड तद्यदि गृह्यते तदेर्द दूषणं केन्द्रे त्रिभे च नवभे गतिफलाभावः प्रसज्येत भोग्यखण्डाभावात्॥ एवं भोग्यखण्डाभावे गतिफलाभावो न भवतीत्युतया भोग्यखण्डसत्वेऽपि गतिफलाभावो दृश्यत इति तादृशं व्यभिचारस्थलमाह—
'भावात्तथागतिफलस्य धनर्णासन्धाविति' । यत्सत्वे यत्सत्त्वं यदभावे यदभावस्तस्मादेव तत्साधयितुं युज्यते । भोग्यखण्डन्तु न तादृशमिति तस्मात्तत्साधनमनुचितमिति भावः ।
अथोच्यते शीघ्रफलचापे क्रियमाणे यद्भोग्यखण्डं तद्यदि विवक्षितमिति तदप्ययुत्तम् । बुधस्यावक्रस्थानेऽपि वक्रा गतिरायातीति महद्दूषणम् । तदेवाह भाष्यकारः-- ऋणप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेनेत्यादिना ॥ ४० ॥
इदानीं वक्रतासंभवमाह
द्राकेन्द्रभागैख्रिश्नृष्पैः १६३ |
शीघ्रकर्ण: २९८९ ॥ २५ शीघ्रफलज्या १२३८ ॥ ५३ शीघ्रफलचापभोग्यखण्डमू २१० । अत्र केन्द्रभुजभोग्यखण्डस्थाने शीघ्रफलचापभोग्यखण्डस्य २१० अस्य ग्रहणे जातं गते: शीघ्रफलम् ७३ ॥ १४ कर्कादिकेन्द्रत्वादिदं मध्यगतेः शोध्यम् । तन्न शुद्धयतीति विपरीतशोधनेन शेषभू १४ ॥ ६ जाता वक्रगतिः । १. शि० वृ० ग्र० ग० स्प० ३९ श्लो० । २. अत्र ब्रह्मगुप्तः--
अग्न्यष्टिभिरिषुमनुभिः शरसूर्येरिषुरसेन्दुभिस्त्रिभवैः |
(ब्रा० स्फु० २ अ० ४८ श्लो०।।। तथा सूरल:--
गुणनृपतिभिर्बाणाब्ध्येकैः शिलीमुखभास्करैः शररसकुभिविश्वक्ष्माभिर्लवैश्चलकेन्द्रजैः ।भवति नियतं वक्रारम्भ: कुजादिनभःसदां पुनरपि भवेद्वक्रत्यागश्च्युतैस्तु भमण्डलात् ।।। |
( शि० धी० ग्र० ग० स्प० ४७ श्लो० ) अत्र बापूदेवोक्तो वक्रारम्भकालिकशीघ्रकेन्द्रांशावगमकः प्रकारः--
त्रिज्याकृतिः खचरमघ्यमभ्रुत्तिनिघ्नी शीघ्रोच्चभुक्तिगुणितोऽन्त्यफलस्य वर्ग: |