पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
स्पष्टाधिकारः

तत्र च तद्वाक्यम्--- त्रिज्याहता स्वचलकर्णहृताशुचाप-भोग्यज्यया विगुणिता विहृताद्यमौव्या । लब्धं त्यजेत्स्वचलतुङ्गगतेः सदैव शेषं स्फुटा भवति वा ग्रहभुक्तिरेवम् ॥इति॥

 अत्र केन्द्रगतिः पूर्वपद्योत्ता गृह्यते । स्पष्टगुणक इति खनागपरिणतः स्वचलपरिधिरेवेति पूर्वपद्ये ज्ञेयम् । शेषं स्पष्टम् ॥ ३९ ॥

इदानों लल्लोतगतिफलस्य दूषणमाह -

धीवृद्धिदे चलफलं युगतेयंदुत
लल्लेन तन्न सदिदं गणकैर्विचिन्त्यम्।
केन्द्रे त्रिभे च नवभे च फलस्य नाशा
द्भावात् तथा गतिफलस्य धनर्णसन्धौ ॥४०॥

 वा० भा०-धीवृद्धिदे तन्त्रे यद्गतेवलफलमुक्त तदसत्। त्रिभे नवभे च केन्द्रे भोग्यखण्डाभावात् फलाभावः स्यात् । तथा धनर्णसन्धौ गतिफलाभावस्थानेऽपि फलमुत्पद्यत एव ॥ तत्पक्षे गतिफलाभावकारणस्याभावात्। येऽत्र वासनाविदस्तैरुतमात्रमपीद ज्ञायते । येऽन्ये न विदन्ति । अथवा वृथाभिमानिनस्तेषां धूलीकर्मणा प्रतीतिरुत्पाद्या। तद्यथा । भौमस्य धनर्णसन्धिकेन्द्रं सार्धराशिचतुष्टम् ॥४।। १५ शुक्रस्य विशतिभागाधिकम् ।। ४॥२० अत्र यावदुनकम् गतिफलमानीयते तावत् ससदशकला १७ भौमस्य । शुक्रस्य द्वत्रिशत् ३२ कला आगच्छति । तदसत् ॥ अथ स्वल्पान्तरत्वादिति चेत् तदपि न । एकत्रिशत् कला गतिः ससदशकला अन्तरम् । तत् कथं स्वल्पमुच्यते । अत्र केचिद्वासनाबाह्या स्वभोग्यखण्डाहतेत्याशुचापभोग्यखण्डाहतेति मन्यन्ते ॥ एवं बुधगतिफलस्यर्णप्रवृत्तौ केन्द्रे राशिचतुष्टये भागेन कलापञ्चकेन चाधिके ४॥१॥५।। अवक्रस्थानेऽपि वक्रा गतिरायातीति सुधीभिरिदमपि विलोक्यम् ॥४०।।


१. शि० वृ० ग्र० स्पष्टा० ४५-४६ श्लो० ।

२. अत्र बापूदेवः--

 भौमस्य शीघ्रकेन्द्रांशाः १३५ भुजः ४५ भुजज्या २४१३ भोग्यखण्डम् १५४ कोटिज्या २४३१ द्विद्वीन्दुद्विकुभिरित्यादिना जातः स्पष्टो गुणः ५१॥३५ 'स्पष्टस्वस्वगुणाहते' इत्यादिना सिद्धं भुजफलम् १५६७ ।। २९ कोटिफलम् १५६७ ।। २९ स्पष्टा कोटिः १८७० ॥ ३१ शीघ्रकर्णः २४४० ।। २७ । अथ केन्द्रगतिः २७ ।। ४२ स्वभोग्यखण्डाहतेत्यादिना जातं गतेः शीघ्रफलम्

 एवं शुक्रस्य केन्द्रांशाः १४० भुजज्या २२०९ भोग्यखण्डम् १७४ कोटिज्या २६३२ । ४० स्पष्टो गुणः ५७ ।। ४२ भुजफलम् १५९३ । ४२ कोटिफलम् १८९९ ।। २२ स्फुटा कोटिः १५३८ ॥ ३८ । शीघ्रकर्ण: २२१५ ॥ १४ केन्द्रगतिः ३७ स्वभोग्यखण्डाहतेत्यादिना जातं गते: शीघ्रफलम् ३२ ॥ २ ।।

 एवं बुधस्य केन्द्रांशाः १२१ । ५ दोज्या २९४२ ॥ ५५ स्फुटगुणक: २९ ॥ १७ कोटिज्या १७७४ । ११ भुजफलम् १०७७ ।। १४ कोटिफलम् ६४९ ।। २५ स्पष्टा कोटिः २७८८ || ३५