पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/169

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
सिद्धान्तशिरोमणौ ग्रहगणिते

 अथ कक्षावृत्तपरिधिस्थकरणायानुपात:-यदि कर्णाग्रे गते शीघ्रदो:फलमिदं तदा त्रिज्याग्रे किमिति, त्रिज्ययोनशे केन्द्रगतिः फलकोटिज्याकर्णान्तरगुणा शीघ्रकर्णेन भक्ता गतेः शीघ्रफलमिति सिद्धम् । इदं फलकोटिज्यातः कर्णेऽधिके धनमूने क्षय इत्युत्पद्यते । अत्र केन्द्रभुक्तिरेकत्र फलकोटिज्यया गुणनीया अन्यत्र केन्द्रभुक्तिः कर्णन गुणनीया। पश्चात् तयोरन्तरं यदि क्रियते कर्णन भाज्यते तथापि पूर्वतुल्यमेव । भवतीति ग्रन्थकृतावधारितम् । कर्णभक्तखण्डयोरन्तरं खण्डान्तरञ्च कर्णभक्तं तुल्यमेवेति कर्णभक्तखण्डयोरेवान्तरं कृतम् । तत्र प्रथमखण्डे केन्द्रभुक्तिः फलकोटिज्या गुणा कणभक्तीति जातम् ।

 द्वितीयखण्डे तु कर्णतुल्ययोर्गुणहरयोर्नाशे केन्द्रगतिरेव । ततः खण्डयोरन्तरं कार्यम् । तत्र यदि फलकोटिज्यातः कर्णाधिकस्तदा पूर्वखण्डं द्वितीयखण्डात् केन्द्रगतेः शोध्यं तद्गतेः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तौ योज्यं स्पष्टा भुक्तिर्भवति । तत्र मन्दस्पष्टभुक्तावेव पूर्वं केन्द्रगतिः क्षिप्यते तदोच्चभुक्तिरेव भवति । तस्या एव पूर्वखण्डं शोधितमिति युक्तमेव ।  अथ यदि च फलकोटिज्यातः कर्णी न्यूनस्तदा केन्द्रगतिः पूर्वखण्डाच्छोध्या .. तद्गतेः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तेः शोध्यं स्पष्टा गतिर्भवति । तत्र ‘संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन केन्द्रभुक्तिर्मन्दस्पष्टभुक्तौ योजिता जाता उच्चभुक्तिः । तस्याः पूर्वखण्डमृणं शोधितमिति युक्तम् । पूर्वखण्डं नाम ‘फलांशखाङ्कान्तरशिञ्जिनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहृदिति'।

 पूर्वखण्डस्यैव नामान्तरं स्पष्टा केन्द्रभुक्तिरिति । अतः सर्वमवदातम् ।

 ननु धीवृद्धिदादितन्त्रेषु लल्लादिभिरपि शीघ्रफलचापभोग्यखण्डस्य स्पष्टीकरणं न कृतमिति व्यर्थीऽयमाचार्यस्य शीघ्रफलचापभोग्यखण्डस्फुटीकरणादर इत्यत आह--  अत्र भोग्यखण्डस्य स्फुटीकरणफलं प्रदश्र्यंते । कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते भुजज्यातुल्यैव फलकोटिज्या तावानेव कर्णश्च भवतीति मध्यैव गतिः स्पष्टा भवति । तत्र गुणभाजकयोस्तुल्यत्वाद् ग्रहस्य च परमफलं भवति । तत्पूर्वापरदिवसयोरपि परममेव फलं ग्रहस्योत्पद्यत इति ग्रहफलाभावेन भाव्यमिति सर्ववादिसम्मतोऽयं पक्ष इति भावः ।

 यथा च सौरपक्षे भौमस्य परमं शीघ्रफलं षोडशकलाधिकाशचत्वारिशदंशाः । दशांशैरधिकराशिचतुष्टयमितकेन्द्रादकाँशैरधिकराशिचतुष्टयमितकेन्द्र यावदिदमेव परमं शीघ्रफल भौमस्योत्पद्यते ।एवं सर्वेषामपि ग्रहाणां धनर्णसन्धी परमशीघ्रफलान्यानीय तत्पूर्वापरदिवसयोरपि शीघ्रफलेषु साध्यमानेषु परमाण्येव भवन्तीति धूलीकर्मणा प्रतीतिरुत्पाद्या । ग्रहस्य शीघ्रफलतुल्यत्वे गते: शीघ्रफलाभाव इति स्पष्टम् ।तस्माद्भोग्यखण्डस्य स्पष्टत्वं युक्तम् । लल्लोत्तसूक्ष्मप्रकारेणापि धनर्णसन्धौ मध्यगतितुल्या न सम्यग् भवतीति तदुक्तस्पष्टगतिप्रतिपादकवाक्यं प्रतीकेनोपादाय दूषयति ।