पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
स्पष्टाधिकारः

वा० भा०-भुजज्या त्रिज्यया गुण्या कर्णन भाज्या लब्धस्य यच्चापं तस्य बाहोश्व यदन्तरं तद् ग्रहस्य शीघ्रफलम् ॥ परमत्र बाहुः प्रतिमण्डलस्य ज्ञेयः ॥ अथ तद्बाहुज्ञानार्थमाह – 'चापेन शीघ्रान्त्यफलज्यकाया' इति। ग्रहस्य परमेण शीघ्रफलेन युतीनोनयुत कार्यम्। किम्। राशित्रयं चतु:स्थम्। तानि प्रतिमण्डलपदानि भवन्ति। तद्यथा बुधस्य परमं शीघ्रफलमेक विशतिभागाः पादीनद्वात्रिशत्कलाधिका: २१ । ३१ ॥ ४३ । अनेन कृतानि पदानि । एतानि बुधस्य प्रतिमण्डलपदानि ॥ यदा प्रतिमण्डलभुजः क्रियते तदायुग्मे पदे यातमेष्यं था ३ २ २ ३  तु युग्म इत्यादिनैव । तद्यथा । यदा सार्धराशित्रयस्य केन्द्रस्य

२१ ८ ८ २१  भुजः क्रियते तदा तावानेव भवति । यदा सार्धराश्यटकस्य

३१ २८ २८ ३१  केन्द्रस्य भुजः क्रियते तदा सार्धराशित्रयं भवतीति ज्ञेयम् ।

४३ १७ १७ ४३  तच्चापबाह्वोविवरं फलं वेत्यत्रायं बाहुज्ञेय इत्यर्थः ।

 अत्रोपपत्तिस्त्रैराशिकेन । कर्णोच्चरेखयोरन्तरं यदि कर्णाग्रे भुजज्यातुल्यं भवति तदा त्रिज्याग्रे किमिति । फल स्फुटग्रहोच्चरेखयोरन्तरं ज्यारूप स्यात् । तच्चापस्य प्रतिमण्डल बाहोश्च यदन्तरं तच्छीघ्रफलं स्यात् ॥ अतोऽत्र प्रतिमण्डलस्य बाहुः । यत: प्रतिमण्डलस्यौज पदान्तं यावत् फलस्योपचयः ततोऽपचयः । तथाचोक्तं गोले--

कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य ।। ३३-३३३ ॥

 वा० वा०-अथ केवलप्रतिमण्डलादेव शीघ्रफलमाह-त्रिज्याहता कर्णहृता भुजज्येति । कर्णाग्रे चेदियं भुजज्या तदा त्रिज्याग्रे केति जाता कक्षामण्डले।  कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते खेटस्य परमफलेन भाव्यमिति तच्चाप प्रतिमण्डलबाह्रोरित्युक्तम् । इति ।  कथं प्रतिमण्डलस्थो बाहुग्राह्य इत्यत आह'चापेन शीघ्रान्त्यफलज्यकायाः?

। अत्र त्रिभोनं भुजो न भवतीत्याह-दोस्तेष्विति ॥ ३३-३३३ ॥


 क्शीघ्रकर्णहृता लब्ध फलकोटिज्यका भवेत् ।
 तच्चापांशोनिताः खाङ्काः स्युः शीघ्रफलभागकाः ।
एवं द्राक्फलत: शीघ्रकेन्द्रभुजांशानयनम् ।
 फलान्त्यफलयोर्जीवावर्गयोरन्तरात् पदम् ।
 फलकोटिज्यया निध्न केन्द्र ककिमृगादिके ।
 फलज्याकृतियुक्तोन भत्तमन्त्यफल ज्यया ।
 लब्धचापलवा: खाडूच्युता द्राक्केन्द्रदोलवाः ॥
यद्वा । फलान्त्यफलशिञ्जिन्योयोगान्तरहतेः पदम् ।
 फलकोटिज्यका तेन पदेनाढयोनिता क्रमात् ।
 मृगकक्र्यादिके केन्द्र गुणिता च फलज्यया ।
 भत्तान्त्यफलमौव्य स्याच्छीघ्रकेन्द्रभुजज्यका।