अत्रोपपत्तिः ।। तत्र वक्ष्यमाणप्रकारेण कोटीफलघ्नी मृदुकेन्द्रभुक्तिरित्यादिनानीते रविचन्द्रयोः परमे गतिफले कलाचे ३४ ॥ ६६ ॥ आभ्यां गतिफल ज्ञानार्थमनुपातः । यदि लध्व्या त्रिज्यातुल्यया कोटिज्यया एते रविचन्द्रयोगतिफले तदेष्टया किमिति । अत्र गणकेन गुणकभाजकावपवत्र्य ज्ञाता भाजके युगशरा: ५४ । चन्द्रस्य गतिफलचतुर्थाशेन गतिफलं त्रिज्यां चापवत्र्य ज्ञातो गुणकः ४ ॥ भाजकश्च ७ । इत्युपपन्नम् ॥ धनर्णतोपपत्तिरग्रे वक्ष्ये ॥ ३१ ॥
वा० वा०-ये केन्द्रदोज्यें, इति। तत्कोटिजीवेति । स्पष्ट भाष्ये। क्षयफलहासे धनफलवृद्धौ गते: फल धनमिति ककदौ धनम्। धनफलहासे क्षयफलवृद्धौ गतेः फलमृणमिति मकरादिकेन्द्रे' क्षय इति ।
तथाहुः केशवसाम्वत्सराः--स्वद्धाँ स्वं स्वमृणक्षय इति । यत्तु केनचित्प्रलप् कर्णस्य ह्रासात् कर्कादावृणमिति तदयुक्तम् ॥ ३०-३१ ॥
इदानी भौमादीना शीघ्रफलानयनम् –
द्राग्दोः फलात् संगुणितात् त्रिमौव्यां घाताद्भुजज्यान्त्यफलज्ययोर्वा |
वा० भा० - स्पष्टम् ।
अत्र वासना त्रैराशिकेन । कर्णकोटिसूत्रयोर्यदि कर्णाग्रे भुजफलतुल्यमन्तरं तदा त्रिज्याग्रे किमिति । अतस्त्रिज्याध्न भुजफल कणन हृतम्। तच्चापकरणेन वृत्तगतत्वं फलस्योपपन्नम्। अथान्यप्रकारेण । दोज्यन्त्यिफलज्याध्नी त्रिज्यया भत्ता भुजफल भवति। यदि कर्णाग्र एतावदन्तरं तदा त्रिज्याग्रे किमिति । पूर्वं त्रिज्या हरः । इदानीं स गुणस्तुल्यत्वान्नाशे कृते सति घातात् भुजज्यान्त्यफलज्ययोर्वेत्युपपन्नम् ॥ ३२ ॥ ॥
वा० वा०-शीघ्रफलानयनमाह-द्राग्दो:फलादिति । प्रतिमण्डलस्था दोज्य नीचोच्चवृत्ते परिणामिता° दो:फलसज्ञां गता । यदि त्रिज्या व्यासार्धे दोष्ज्र्यातुल्यो भुजस्तदान्त्यफलज्याव्यासार्द्र क इति जातं दो:फलं नीच्चोच्चवृत्ते । ततः कक्षामण्डलपरिधिस्थकरणायानुपातः । यदीदं कर्णाऽग्रे दोः फलं तदा त्रिज्याग्रे किमिति त्रैराशिकद्वयेन शीघ्रफलं साध्यते। तदा त्रिज्ययोनशे कृते द्वितीयप्रकार उत्पद्यते । प्रथमत्रराशिकसिद्धमेव द्राग्दोःफलं गृह्यते ॥ ततः कर्णानुपाते कृते प्रथमप्रकार उत्पद्यते ॥ ३२ ॥
इदानी प्रकारान्तरेण फलमाह—
त्रिज्याहता कर्णहता भुजज्या तच्चापबाहोविंवरं फलं वा । |
१. केन्द्रक्षय इति क ख पु० । २.
अत्र बापूदेवोक्त प्रकारान्तरेण शीघ्रफलानयनम् । |
३. परिमाणमिता इति ग पु० ।