पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/163

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
सिद्धान्तशिरोमणौ ग्रहगणिते

इत्येवं फलानयनमुक्त्वेदानीं ग्रहस्पष्टीकरणमाह

स्यात् संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् ॥ ३४ ॥
विधाय शैध्येण फलेन चैवं खेटः स्फुटः स्यादसकृत् फलाभ्याम् ।।

दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत् कुजस्तु ॥ ३५ ॥
स्फुटौ रवीन्दू मृदुनैव वेयौ शीघाख्यतुङ्गस्य तयोरभावात्।

 वा० भा०-आदौ ग्रहस्य मन्दफलमानीय तेन संस्कृतोऽसौ मन्दस्फुट: स्यात्। त शीघ्रोच्चाद्विशोध्य शीघूकेन्द्र' कृत्वा ततः शीघुफलं तेन संस्कृतो मन्दस्फुटो ग्रहः स्फुटः स्यात् । तस्मात् स्फुटान्मन्दोच्चं विशोध्य मन्दफलमानीयतेन गणितागतो मध्यः संस्कृतो मन्दस्फुट: स्यात् । तेन पुनश्चलकेन्द्र' ततश्चलफलं तेन मन्दस्फुटः संस्कृतः स्फुटः स्यात् ॥ एवमसकृद्यावदविशेषः ॥ अश्योपपत्तिगोले ।

शीघुनीचोच्चवृत्तस्य मध्यस्थिति ज्ञातुमादौ कृतं कर्म मान्दं ततः ॥
खेटबोधाय शंध्यं मिथःसंश्रिते मान्दर्शध्ये हि तेनासकृत् साधिते ॥

 इति तथा मन्दकर्मणि कणों न कृतस्तत्कारणमपि गोले कथितम्। यत् तु दलीकृताभ्यां प्रथमं फलाभ्यामित्यादि कुजस्य विशेषस्तत्रोपलब्धिरेव वासना ॥ ३३3-३५३ ॥

 वा०वा०-अथ ग्रहस्पष्टत्वार्थ विष्णुधर्मोत्तरद्वितीयकाण्डान्तोतब्रह्मसिद्धान्तोक्तया ग्रहभगणान्मन्दशीघ्रपरिधीश्च स्वीकृत्य तन्मतेनैव फलसंस्करणप्रकारमाह'-‘स्यात् संस्कृतः इति । ·  यदा यन्त्रवेधोपलब्धः स्पष्टो मन्दोच्चतुल्यो दृष्टस्तदा सर्वदा गणितागतमध्यमस्य वेधोपलब्धस्पष्टस्यान्तरं शीघ्रफलतुल्यं दृष्टम् । तस्मात् स्पष्टान्मन्दफलमानीय मध्यमे देयं स मन्दस्पष्टः स्यात् । मन्दस्पष्टाच्छीघ्रफलमानीय मन्दस्पष्टे देयं स स्पष्ट: स्यात् । एवं फलयोमिथः संश्रितत्वादसकृत् साधनमुचितम् । वक्ष्यते गोले । ‘शीघ्रनीचोच्चवृत्तस्येति' । 'स्फुटग्रहं मध्यखगं' इत्यत्रापि स्पष्टसाधितं फलं मान्दं स्पष्टए विलोमं कृतं तद्युक्तियुक्तम् । विलोममन्दफलसंस्कृतात् स्पष्टाद्यच्छीघ्रफलं साध्यते तदयुक्तम् । यतो वास्तवान्मन्दस्पष्टादेव कतुमुचितम् । वास्तवशीघ्रफलेन विलोमेन संस्कृतः स्पष्टो वास्तवमन्दस्पष्टः स्यात् । एवं फलयोमिथः संश्रितत्वादसकृत्साधनम् । सौरतन्त्रे तु चत्वार एवोपग्रहाः कर्मचतुष्टये कारणत्वेन कल्पिता इति न किञ्चिद्बाधकम् ।

 भौमस्य विशेषमाह-दलीकृताभ्यामिति । स्वसत्ताकाले यादृशी उपलब्धिस्तादृशमुक्तम् । अत एव सौरेऽभिहितं ‘कालभेदोऽत्र केवलम्' इति ॥

 रविचन्द्रस्पष्टीकरणमाह-'स्फुटी रवीन्दू मृदुनैव वेद्याविति'।

 केचन प्रतारकाश्चन्द्रस्य द्वितीयं फलमुपकल्प्य चन्द्रमन्दकेन्द्र तेन संस्कृत्य तस्मात् केन्द्रान्मन्दफलमानीय मध्यमचन्द्रे देयम् । स स्पष्टश्चन्द्रो भवतीत्याहुः तन्मतनिवारणाय एव कारो दत्तः|

 तत्र हेतुमाह-'शीघ्राख्यतुङ्गस्य तयोरभावादिति' । शीघ्रफलानुपलब्ध्या शीघ्रोच्चाभावः न क्वचिदार्षशास्त्रे तच्छीघ्रोच्चभगणा उत्ताः ॥ ३३3-३५ ॥