पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/149

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
सिद्धान्तशिरोमणौ ग्रहगणिते

 इदानी परमक्रान्तिज्यामाह-

अश्वाङ्गविश्वे १३९७ऽत्र जिनांशजीवा यद्वा सुखार्थ लघुखण्डकैज्य ॥१२॥

रूपाश्विनो विंशतिरडूचन्द्रा २१ ॥ २० ॥ १९
अत्यष्टितिथ्यर्कनवेषुदस्राः १७॥१५॥१२॥९॥५॥२
ज्याखण्डकान्यंशमितेर्दशाप्तं
स्युर्यातखण्डान्यथ भोग्यनिघ्नाः ॥१३॥

शेषांशकाः खेन्दुहता यदाप्तं तद्यातखण्डैक्ययुतं लघुज्या ।
जिनांशजीवाङ्कृता विष्पादाः॥४८॥४५ स्याङ्दुत्क्रमज्यात्र विलोमखण्डॅः ॥१४॥
विशोध्य खण्डानि दशघ्नशेषादशुद्धलब्धं धनुरंशकाद्यम् ।
विशुद्धसंख्याहतदिग्युतं स्याद् भोग्यात् स्फुटाज्ज्यातिपरिस्फुटात्र ॥१५॥
 वा० भा०-चतुविंशतिभागानां जीवाश्वाडूविश्व १३९७ तुल्या भवति । इयं परम-
क्रान्तिज्या सन्ततोपयोगित्वात् पठिता । अथ लघुखण्डर्केज्र्या साध्यते सुखार्थम् । कानि तानि
खण्डकानि । रूपाश्विन इत्यादीनि नव ।
 अथ ज्यासाधनम् । यस्य ज्या साध्या तस्य भागान् कृत्वा दशभिः १० भजेत् ॥ १त्र
यावल्लभ्यते तावन्ति गतखण्डकानि स्युः । अथ शेषांशान् भोग्यखण्डेन संगुण्य दशभिर्भजेत् ।
फल यातखण्डैक्येन युत लघ्वी ज्यका स्यात्। एवमत्र त्रिभज्या खार्क १२० मिता स्यात्। तथा
जिनांशज्या पादोना नवाब्धयः ४८ ।। ४५ । अत्रोत्क्रमज्यानां पृथक् पाठाभावात् कथमुत्क्रमज्याः
साध्या इत्यत अाह । ‘स्यादुत्क्रमज्यात्र विलोमखण्डैरिति । अथ धनुःसाधनम् । यस्य धनुः
साध्यते तस्मादाद्यखण्डादारभ्य यावन्ति खण्डकानि शुद्धयान्ति तावन्ति शोधयेत् । शेषाद्दश
गुणादशुद्धखण्डभक्ताद्यल्लब्धमंशाद्य तद्विशुद्धखण्ड्सङ्ख्यागुणेर्देशभियुतं धनुः स्यात् ।
 अत्रोपपत्तिः प्राग्वदनुपातेन । अत्र यावद्यावन्महद्वयासार्धं बहूनि च खण्डानि तावत् तावत्
स्फुटा ज्या स्यात् । तदन्यथा स्थूला । अत उक्त 'भोग्यात् स्फुटाज्ज्यातिपरि-
स्फुटात्रेति ।। ११३-१५ ॥
 इदानीं भोग्यखण्डस्पष्टीकरणमाहयातैस्ययोः
खण्डकयोर्विशेषः शेषांशनिध्नो नखहृत् तद्नम् ।
युतं गतैष्यैक्यदलं स्फुटं स्यात् क्रमोत्क्रमज्याकरणेऽत्र भोग्यम्' ॥१६॥


 १.अत्र बापूदेवोत्तोपपतियंथा-श्रेढया: प्रत्येकराशीनामित्यादिना प्रकारेण यत्र परम्प-
राणामियत्ता स्यात् तस्याः श्रेढया सर्वधनं निरन्तरमवगन्तुं शक्यते । यत्र च परम्पराणामानन्त्यं
तत्र यथायथा परम्परा अधिका गृहीत्वा सर्वधनं साध्यते तथातथा तदासन्नं सूक्ष्मतरश्च भव-
ति । इत्यनर्यवासन्नसवधनानयनयुक्त्या लघुज्याखण्डरूपश्रेढया येषामशानां ज्या साध्या