पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 系 ) वंशावली शिलालेखाधारेणाचार्यस्य पूर्वापरपुरुषाणां नामावली यथा ‘शाण्डिल्यवंशे* कविचक्रवर्ती त्रिविक्रमोऽभूत्तनयोऽस्य जातः' इत्यादिना । سسسسسITر त्रिवृित्तमः মানুচ্ছেঃ गोन्दिः प्रभाकरः मनोरथः महेश्वरः भास्करः लक्ष्मीधरः चङ्गदेवः । रचनाकालः ग्रन्थरयास्य रचनाप्रसङ्गे स्वयमेवाचार्यभास्करेण लिखितमस्ति । यथा - ‘रसगुणवर्षण मया सिद्धान्तशिरोमणी रचितः”२ अस्माद्धेतोरस्य रचनासमयः १०७२ शकः । इतोऽपि पूर्वं भास्करेण शिष्यधीवृद्धिदनामकलल्लकृतग्रन्थस्य टीका कृतेति वासनावातिकावलोकनेन स्पष्ट परिचीयते । तत्पश्र्वादेव भागचतुष्टयात्मकं सिद्धान्तशिरोमणिनामकं सिद्धान्तग्रन्थमरचयत् षट्त्रशद्वर्ष वयसि । अत्रपि प्रथमं कस्य भागास्य रचना कृतेति विचारेऽस्य प्रथमो भाग: पाटीगणितं लीलावती वेति, द्वितीयो बीजगणितम्, तृतीयो ग्रहगणितम्, चतुर्थश्च गोलाध्या। यात्मको भाग इति जनश्रुतिः । १. भा० ज्यो० ३४३ पृ० । २. सि० शि० प्रश्ना० ५८ श्लो० ।