पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 9 ) किन्तु *वासनावात्तिककारेण नृसिंहेनाऽस्मिन् विषये कथितमस्ति यदनेनाचार्येण तु पूर्वं ग्रहगणितं कृतम् । ततः पाताध्यायानन्तरं पाटीकुट्टकृवर्गप्रकृतिबीजसूत्राणि संक्षेपेण विरचितानि । ततो गोलाध्यायस्य ‘ईषदीषदिह मध्यगमादौ? इत्यन्तं विरचितः । ततो यन्त्राध्यायः, तदनन्तरमयं प्रश्नाध्यायो रचित इति प्रश्नोत्तराणि पाठ्यादिभिः कथितानीत्युक्तम् । यतः सन्ति क्वचिदीदृशान्यपि सिद्धान्तशिरोमणिपुस्तकानि । ईदृशं सिद्धान्तशिरोमणिपुस्तक विरचय्योदाहरणयोजनासहितानि बीजपुस्तकानि सूत्रविशेषसहितानि विहितानि । - एवं लीलावतीबीजपुस्तके विरचय्य गोलाध्यायभाष्यं कृतम् । तदनन्तरं ग्रह गणितभाष्यं निमितमित्याचार्यग्रन्थादेवोपलभ्यते । यथा व्याख्याता प्रथमं तेन गोले या विषमोक्तयः । 'अत्रोपपतिगोंले समं भसूर्या' इत्यादिना कथिता व्याख्याता च' । ‘तत्कारणं गोले कथितम्°, ‘यथा गोले कथितम्*'। 'इत्यादिना गोले सम्यगभिहिता’, ‘अस्योपपत्तिगोंले कथितव', 'तात्कालिकीकरणकारणता गोले कथिता?* इत्यादिवाक्येः प्रथमं गोलाध्यायस्यैव भाष्यं कृतमिति , स्पष्टं परिज्ञायते । - - बीजगणितकुट्टकप्रकरणस्य 'कल्प्याष्थ शुद्धिविंकलावशेषम्' इत्यादिश्लोकस्य विवृत्तौ भास्करेणोत्तमस्योदाहरणानि प्रश्नाध्याये-इति कथनेन प्रश्नाध्यायानन्तरमेव बीजपुस्तकनिर्माणं सिद्धयति । अस्यन्य रचनाः साम्प्रतमस्यान्यग्रन्थः करणकुतूहलाख्य उपलभ्यते, तथा गोलाध्यायस्य यन्त्राध्याये नाडीवलययन्त्रप्रतिपादने अस्यैकस्य सर्वतोभद्रयन्त्राख्यस्य ग्रन्थस्यापि परिचयो लभ्यते । यथोक्तं तेन ‘स चाङ्कनप्रकारः सर्वतोभद्रयन्त्रे मया पठितः’॥*° परमयं ग्रन्थो नद्यावधि कॅरपि संदृष्टः । अस्य ग्रन्थकारस्य 'भास्करव्यवहारविवाहपटलाख्ययो मुहूर्तग्रन्थयोरप्युल्लेखो बहुधोपलभ्यते। १• सि० सि● ४८२ go २. सि० शि० ३ पृ० । ३- सि० शि० ४७ पृ० । ४. सि० शि० ५४ पृ० ॥ ५. सि० शि० ५६ पृ० । ६. सि० शि० १३१ पृ० । ७. सि० शि० १३२ पृ० । ८. सि० शि० १५० पृ० । ९० बी० ग० कु० ३७ श्लो० । १०. सि० शि० ४४१ पृ० ।