पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/13

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ; ) जन्मस्थली अस्य महाप्राज्ञस्य सह्यपर्वतोपान्ता ज्जिडविडाख्या साम्प्रतं बोजापुराभिधानेति qरिज्ञायते तदुतन। यथा आसीत् सह्यकुलाचलाश्रितपुरे त्रैविद्यविद्वज्जने । नानासज्जनधाम्नि विज्जडविडे शाण्डिल्यगोत्रो द्विजः ॥* अत्र केचन° 'जडविड’ इत्येव भास्करग्रामाभिधांनं भणन्ति । ते खलु विद् जडविडे इति पदच्छेदं कुर्वन्ति । तथा च विच्छऽदो महेश्वरकृतिनो विशेषणरूप इति स्वीकुर्वन्ति । अन्यैश्च ३ विज्जडविड्स्याद्यद्वयशब्दलोपातू 'वोड' इति ग्रामनामासीदिति प्रकल्प्यते । परन्त्वस्यान्यस्योक्तैः शङ्करबालकृष्णदीक्षितेन स्वेतिहासे खण्डनं विहितम्। अकबरनाम्ना° राज्ञा १५८७ ई०-वर्षे १५०९ शके भास्करस्य पाटीगणितस्य पशियनभाषायामनुवादः कारितः । तत्रानुवादकेनाऽस्य जन्मभूमिः कुत्रचिद् दक्षिणभारते ‘वेहर' नाम्नीति स्वीकृता। परमियमपि असंबद्वैव, सह्याद्रिसन्निकर्षाभावात्। खानदेशे चालीसग्रामाभिधात् कस्माचित् स्थानान्नेऋत्यदिशि पञ्चक्रोशाभ्यन्तरे पाटणाख्यो ग्राम आसीत्। तत्रत्ये भवानीमन्दिरे एक: शिलालेखो भास्कराचार्यपौत्रेणोटडूितः, डॉ. भाऊदाजीनाम्ना परीक्षितश्च । तत्र भास्करग्रामनाम 'पाटण' इति संभव्यते । भास्करानुसारं सह्याचलाश्रितमस्य सविधे वा 'विज्जडविड' ग्राममासीदिति साम्प्रतं प्रसिद्धिस्तस्यापरनाम्नास्तीति प्रतीयते । जनको गुरुश्व ۔ । अस्य जनको गुरुश्र्च शाण्डिल्यगोत्रोद्भवः ‘महेश्वराचार्यः’ इति तद्वाक्यबलेनेव सिद्धयति । यथा— - अासीन्महेश्वर इति प्रथितः पृथिव्या माचार्यवर्यपदवीं विदुषां प्रपन्नः । लब्धावबोधकालिकां ततः एव चक्र -- ज्जेन बीजगणित लघुभास्करेण।' १. सि० शि० ५२४ पृ० ॥ २० गणकo 38 go । ३. भा० ज्यो० ३४५ पृ० ॥ ४. गणक ० ३८ पृ० । ५. बी० गा० उप सं० १२ लो०