पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/139

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० भा०-भूपरिघेरुपपतिगॉले कथ्यते । योजनलक्षण गणिते कथितमस्ति। तथाप्यत्र यदुच्यते तत्रेदं कारणम् । भूरेकैव किन्तु यत्त्वार्यभटादिभिराचार्यैः सत्यपि नियामके पलांशादर्शनेऽन्यथान्यथा तत्प्रमाणमभिहितं तत्र षट्ससाष्टयवमङ्गुलं कनिष्ठिकादिभेदेन शास्त्रेषूच्यते ॥ तेनाभि प्र,येणाऽन्येन वा यत् तैरुक्तं तदनेन स्पष्टीक्रियते । याम्योत्तरयोः पुरयोः पलांशान् वक्ष्यमाणप्रकारैज्ञात्वा तेषामन्तरेणानुपातः । यदि भांशपरिधौ दक्षिणोत्तरमण्डल एतावत् पलान्तरं तदा भूपरिधौ पुरान्तरे किमिति । यल्लब्ध तावन्तो विभागाः पुरान्तरस्य क्रियन्ते । यावानेको विभागस्तावद्योजन ज्ञेयम्। तादृशेयजनैर्देशान्तर कर्तव्यमित्यर्थ: ।। १ ।।

 इदानीं भूपरिधिस्फुटीकरण मध्यरेखां चाह-

लम्बज्यागुणितो भवेत् कुपरििधः स्पष्टखिभज्याहुतो
यद्वा द्वादशसंगुणः स विषुवत्कर्णेन भक्तः स्फुटः ।
यल्लङ्गोञ्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्
सूत्र मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः१ ।२।

 वा० भा० - अत्रोपपत्तिगले । २ ।।

 इदानी देशान्तरमाह ।

यत्र रेखापुरे स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैयोंजनैः ।
खेटभुक्तिर्हता स्पष्टभूवेष्टनेनोद्धृता प्रागृणं स्वं तु पश्राद् ग्रहे ॥३॥

 वा० भा०-अत्रोपपतिस्त्रैराशिकेन गोलेऽभिहिता च । ३ ।। ।

 इदानीं देशान्तरघटिका आह।

प्राग्भूविभागे गणितोत्थकालादनन्तरं प्रग्रहणं विधोः स्यात् ।
आदी हि पश्चाद्विवरे तयोयां भवन्ति देशान्तरनाडिकास्ता: ।।४।।
तद्घ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति देशान्तरयोजनानि ।
घटीगुणा षष्टिहृता द्युभुक्तिः स्वर्णं ग्रहे चोक्तवदेव कार्यम् ॥५॥


१. अत्र श्रीपतिः ।

लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः ।
श्रीवत्सगुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा ।॥
स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् ।
श्रीगर्गराटं च सरोहिताक्षस्थानेश्वरं शीतगिरिः सुमेरु: ॥
इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति ।
अन्यानि रेखास्थितिभाजि लोके ज्ञेयानि तज्ज़: पुटभेदनानि ।

( सि० शे० मध्य० ९५-९७ श्लो० )