पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
मध्यमाधिकारे भूपरिध्याद्यध्यायः

अकॉदयादूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः ।
ऊध्र्व तथाधश्वरनाडिकाभी रवावुदग्दक्षिणगोलयातें ॥६॥

 वा० भा० - यः किल मध्यरेखाया अपरिज्ञानात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेति तेनैवं ज्ञातव्यम् । विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकाले रात्रिगतं ज्ञेयम् । अथञ्च गणितेन स्पर्शकाली ज्ञेयः । गणितोत्थकालादनन्तरं प्रग्रहण यदि दृष्ट तदा द्रष्टा रेखात: प्राग्भूविभागे । यतो द्रष्टा यथा यथा रेखात: प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवाकॉदय पश्यति । इतोऽन्यथा चेतदा पश्चाद् द्रष्टा । दृग्ग्रहणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिगुणितं षष्टया हृतं स्पष्टभूवेष्टनम्। एवमनुपाताद्देशान्तरयोजनानि । अथवा कि योजनैः । यदि वटीषष्टया गतिलभ्यते तदा देशान्तरघटीभिः किमिति एवं यत् फलमुत्पद्यते तत् प्रागूणं पश्चाद्धनमिति युक्तमुक्तम् । तथा प्राच्यां ताभिर्घटीभिर्दिनवारप्रवृत्तिरकर्षोदयादूध्र्वं भवति ॥ ५ तीच्यान्तु तस्मादधः ॥ यतो लड्रोदये वारादिः। अत एव च रवावुतरगोलस्थे। चरार्धघटिकाभिरूध्वम्। यतस्तदोन्मन्डल क्षितिजादूर्ध्वम् । दक्षिणे त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम् ।। ४-६ ।।

 इदानों ग्रहाणां बीजकर्माह।

खाभ्रखाकैर्हृताः कल्पयाताः समाः शेषकं भागहारात् पृथक् पातयेत् ।
यत्तयोरल्पकं तद्द्वशत्या २०० भजेल्लिप्तिकाद्यं फलं तत् त्रिभिः सायकैः॥७॥


१. अत्र ब्रह्मगुप्तः ।

जगति तमोभूतेऽस्मिन् सृष्टयादौ भास्करादिभिः सृष्टैः । यस्माद्दिनप्रवृतिदिनवारोऽकोंदयातू तस्मात् ।

ब्रा० स्फु० सि० १ अ० ३३ श्लो० ।
 

तथा श्रीपति:

सृष्टमुंखे ध्वान्तमये हि विश्वे ग्रहेषु सृष्टष्विनपूर्वकेषु।
दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादुदयात् प्रवृत्तिः ।

सि० शे० मध्य० ११ श्लो० ।।
 

लङ्कोदग्याम्यसूत्रात् प्रथममपरतः पूर्वदेशे च पश्चाद
ध्वोत्थाभिर्घटीभिः सवितुरुदयतो वासरेशप्रवृत्तिः ।
ज्ञेया सूर्योदयात् प्राकू चरशकलभवैश्चासुभिर्याम्यगोले
पश्चात् तैः सौम्यगोले युतिवियुतिवशाच्चोभयोः स्पष्टकालः ॥

सि० शे० मध्य० १३ श्लो० ।।
 

अन्यच्च तत्रैव ।

केचिद्वारं सवितुरुदयात् प्राहुरन्ये दिनार्धाद्धानोरर्धास्तमयसमयादूचिरे केचिदेवम् ।
वारस्यादि यवननृपतिर्दिङ्मुहूर्ते निशायां लाटाचार्यः कथयति पुनश्चार्धरात्रे स्वतन्त्रे ॥

सि० शे० म० १० श्लो० ॥