पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/117

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
सिद्धान्तशिरोमणौ ग्रहगणिते


 वा० वा०-आत्रापि प्रकारान्तरमाह। दिनाद्य त्रिनिध्नमिति । दिनाद्यं त्रिगुणितं सत् क्षयाहासन्नं भवतीति दिनाद्यं त्रिनिघ्नमित्युक्तम् । अस्मिन् क्षुयाह्देः शोधिते शेषम्' ॥१॥ ॥५१॥। अत्र घटीस्थाने सुखार्थं द्वयमेव धृत्वा समात्रिशदंशेन युगिति । इदमेव द्विच्युतं जातम् ॥०॥९॥ चतुःशत्या सर्वाणतं जातं समाभ्राभ्रवेदांशकोनमिति ॥३३॥


अथ प्रकारान्तरेणावमान्याह ।
स्वषष्टयंशहीनाब्दखाङ्गन्दु-१६० भागः स्वपश्चांशहीनाब्दयुग्वा क्षयाहाः॥४॥

 वा० भा०-स्पष्टम् ।

अत्रोपपत्तिः ॥ एकस्मिन् रविवर्षेऽवमशेषमष्टचत्वारिंशद् घटिकाः । तत् पञ्चांशोनं दिनम् ॥ अतः पञ्चांशोना अब्दाः कृताः ॥ अथ तदधस्तना अवयवाः ० ॥ ० ॥ २२ ॥ ७ ॥ ३० एते खान्ङ्गदुभि –-१६० गुणिता जाताः ० ॥ ५९ ॥ एतत् षष्टच्यशोनं रूपमतः स्पषष्टयंशोनाब्दाः खाङ्गन्दुभिर्भक्ताः पञ्चांशोनाब्दयुता अवमाद्य' भवतीत्युपपन्नम् ॥ ४ ॥

 वा० वा०-प्रकारान्तरमाह । स्वषष्टच्यंशहीनाब्देति । अत्राष्टचत्वारिंशद् घटिकास्तत्पञ्चांशोनं दिनम् ॥०॥०॥२२॥७॥३०। खाङ्गेन्दुभिः सर्वाणितं जातम् ०॥५९॥ इदन्तु स्वषष्ट्यंशोनदिनम् । अस्य खाङ्गेन्दुभाग इति सुगमम् ॥४॥

 अथ गताधिमासाश्छुद्धि चाह ।


दिनादिक्षयाहादिदिग्ध्नाब्दयोगः खरामैर्हृतः स्यु प्रयाताधिमासः ।
भवेच्छुद्धिसंज्ञं यदत्रावशिष्टं तदूनं सदूनाहनाडयादिकेन ॥ ५ ॥

 वा० भा०-अनन्तरानीते ये दिनादिक्षयाहाद्य तयोर्योगो दशघ्नैर्गताब्दैर्मुर्तास्त्रशता हृत: फलंगताधिमासा भवन्ति । यदत्रावशिष्टं तच्छुद्धिसंज्ञम् । परं क्षयाहानांनाड्यादिकेन वजितं सत् ॥

 अत्रोपपत्तिः । अत्रैकवर्षसावनाना-३६५ ॥ १५ ॥ ३० ॥ २२ ॥ ३० मवमानाञ्च ५ ॥ ४८ ॥ २२ ॥ ७ ॥ ३० योगातुल्या वर्षे चान्द्राहा भवन्ति ३७१ ॥ ३ ॥ ५२ ॥ ३० । तथा वर्षे षष्ट्यधिकशतत्रयं ३६० सौराहाः ॥ एभिरूनाश्चान्द्राहाः प्रत्यब्दमधिमाससम्बन्धिन एकादश भवन्ति घटीत्रयञ्च सार्धानि द्विपञ्चाशत् पलानि ११ ॥ ३ ॥ ५२ ॥ ३० ॥ एवमेकस्मिन् वर्षे दिनादिक्षयाहादियोगो दशाधिकोऽधिदिनानि भवन्ति । अधिदिनैस्त्रिशद्भिरधिमासो भवतीत्युपपन्नमधिनासानयनम् । अथाधिशेषदिनान्यहर्गणानयने शोष्यत्वाच्छुद्धिसंज्ञानि अत्राधिमासशेषतिथिभ्यो यदवमघटिकाः शोधितास्तत्कारणमग्रे कथयिष्यामः ॥५॥

 वT० वा०-अथ गताधिमासाद्यमाह । दिनादिक्षयादीति ।

 यथा सौरवर्षान्तःपाति सावनचान्द्राणामन्तरं क्षयाहास्तथैव सौरचान्द्राणामन्तरमधिदिनानि । तान्येकस्मिन् वर्षे ॥११॥३॥५२॥३०॥ वाषिकं दिनाद्यम् ०॥१५॥ ३०॥२२॥३०॥ भासावनमिदम् । वाषिकक्षयाहाद्यम् ॥०॥४८॥२२॥७॥३०॥ अनयोयोंगे जातं चान्द्रमिदम्॥१॥३॥५२॥३०॥ अत्र चेद्दश योज्यन्ते तदा वाषिकाधि


१. ०॥१॥१५ इति ग० पु० ॥ २. वाषिकं क्षयाहाद्यम् ५॥४८॥२२॥७॥३० इति साधुः ।