दधिकं गृह्यते तदृणमिति । प्रकृतेऽधिकत्वादृणम् । अतोऽनुपातः । यद्येकेन वर्षेणेदमृणं ०॥११॥३७॥५२॥३०॥ तदेष्टवर्षेः किमिति यदायाति तत् क्षयाहेभ्यः शोध्यं ‘धनर्णयो रन्तरमेव योगः' इति।। इदमपि खण्डगुणनमेव । खण्डैगुणनस्य विद्यमानत्वात्। यथास्थितस्यैव धनखण्डानि कार्याणि । धनर्णखण्डानि वा ।। *गुण्यस्त्वधोऽधो गुणखण्ड- तुल्यस्तैः खण्डकैः संगुणितो युतो वा ॥'
इति प्रकारस्य वेटोनयुक्रेन गुणेनेति प्रकारोऽन्तर्गत इति द्विधा भवेदूपवि भाग* इत्युक्तम् ।
खण्डगुणनस्य द्वैविध्यमुक्तं रूपविभागस्थानविभागाभ्याब्रेति । तस्मादनेन *गुणेन ०॥११॥३७॥५२॥३०॥। इष्टवर्षाणि धनगतानि गुणनीयानि यदायाति तच्छी ध्यत्वादृणम् । अत एव ‘स्वर्णघाते क्षयः' इत्युच्यते । वस्तुतस्तु ऋणगुणको नाम विपरीतगुणकस्तस्मादृणं गुणनष्फलमुत्पद्यते । विपरीतस्य विपरीतापवर्तने क्रियमाणे 'धनगतत्वमेव युक्तं, अभावाभावस्य भावत्वनियमात् । ऋणयोर्घातो धनं ऋणस्य शोध्यत्वे धनत्वमिति स्फुटम् ॥ तत्र शोध्यस्यास्य खण्डद्वयं कृतम् ॥०॥११॥१५॥ द्वितीयं ०॥०॥२२॥५२॥३०॥ प्रथममभ्रभूपैः सर्वाणितं जाता दिनस्थाने त्रिशदत उक्तं खरा माहतैरिति । द्वितीयमपि तैरेवाभ्रभूपैः सर्वाणितं जातं दिनस्थाने ॥१॥१॥ अत उक्तं स्वषष्ट्यंशयुक्तानि वर्षाणीति ।। ६‘योगोन्तरं तुल्यहरांशकानाम्' इति पूर्वद्वितीयफलयोग एव हरेण हृत इति सर्व निरवद्यम्। ३ । ।
इदानी प्रकारान्तरेण क्षयाहानाह ।
दिनाद्यं त्रिनिघ्नं समाभ्राभ्रवेदां-४०० शकोनं समात्रिंशदंशेन युग्वा ।
वा० भा०--यत् प्रागानीतं दिनाद्यं तत् त्रिगुणं वर्षचतुःशतांशोनं वर्षत्रिददंशेन युतं वा क्षयाहा भवन्ति ।
अत्रोपपत्तिः । अत्रैकवर्षे दिनाद्यम् ० ॥ १५ ॥ ३० ।। २२ ॥ ३० ॥ तथाऽवमाद्यम् ० ॥ ४८ । २२ ॥ ७ ॥ ३० । दिनाचे त्रिगुणितेऽवमाद्याद्विशोधिते जात शेषम् ० ॥ १ ॥ ५१ । इर्द त्रिगुणे दिनाद्ये यदि क्षिप्यते तदाऽवमाद्यं भवति ॥ इदं शेषं खखार्क-१२०० गुणितं जातं ससत्रिशत् ३८ ॥ अब्दाः ससत्रिशता गुण्याः खखाकैर्भक्तास्त्रिगुणे दिनाद्ये यदि क्षिप्यन्ते तदा गतावमानि भवन्ति ॥ अत्र गुणके रूपत्रयं प्रक्षिप्य सुखार्थं चत्वारिशद्गुणकः कृतः ॥ रूपत्रयमृणं गुणकश्च ४० ॥ ३ ॥ अाभ्यामब्दा गुण्याः ॥ खखार्कभज्याः । तत्र प्रथमगुणकश्चत्वारिंशताऽपर्वातितो जातः १ ॥ हरश्च ३० ॥ द्वितीयो गुणकस्त्रिभिरपर्वाततः १ ॥ तत्र हरश्चतुःशती ४०० ॥ अतो गताब्दाः पृथक् त्रिशता चतुःशत्या च हृताः प्रथमफलं त्रिगुणदिनाद्य धनं द्वितीयमृणमेवमवमाद्य' भवतीत्युपपन्नम् ॥ ३३ ॥
१. बीजग० धनर्णसङ्कलने सूत्रम् । २. लीला० गुणने द्वि० सूत्रम् ।
३. लीला० गुणने चतुर्थसूत्रम् । ४. कणेंने क पु० ।
५. घने गतत्वमेव युक्तम्।इति ग पु०।। ६.लीलावत्यां मिन्न सङ्कलितव्यवकलितयोःसूत्रम्।