पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/115

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
सिद्धान्तशिरोमणौ ग्रहगणिते

 इति त्रिशत्पलानि । इदन्तु घटिकार्द्धमेव । तस्मान्निजाशीतिभागेन युक्त समार्द्ध घटिकाः भवन्ति । इदं षष्ट्या भक्ततं दिनीकरणायेति सर्वं शोभनम् ॥। ॥१३॥

 पुनः प्रकारान्तरेणाह । -

गताब्दा विभक्ताः समुद्रैः ४ खस्रुर्यैः १२०
खखाङ्गाङ्ककैः ९६०० वर्षा फलैक्यं दिनाद्यम् ॥ २ ॥

 वo भा०-स्पष्टार्थम् ।

 अत्रोपपत्तिः ॥ एकं दिनं पश्चदशघटिकाभिर्यावध्रियते तावच्चत्वारो लभ्यन्ते । यावदर्धघटिकया तावत् खसूर्याः १२० ॥ यावदधस्तनेनावयवेन ॐ ॥ ० ॥ ० ॥ २२ ॥ ३० तावत् खखाङ्गाङ्ककाः ९६०० ।॥ एवं प्रत्यब्दम् ॥ अतो गताब्दा एभिविभक्ताः फलैक्यं दिनाद्यं स्यादित्युपपन्नम् ॥ १३-२॥  वा० वा०-प्रकारान्तरेणाह गताब्दा इति ।

 अत्र पूर्ववद्दिनाद्यानि खण्डत्रयाणि कृत्वा वारस्थरूपमेभिः पृथक् भजेत् । यल्लभ्यते त एव हराः । समानामिति योगे दिनाद्यं भवति । अयमर्थः । यद्यनेन खण्डेन रूपमितो हरस्तदाऽचार्यकल्पितरूपमितदिनेन किमिति सर्वमुत्पद्यते ॥ २ ॥

 इदानी क्षयाहानाह ।

स्वषष्टयंशयुक्तानि वर्षाणि वर्षैः खरामाहतैः संयुतान्यभ्रभूपैः १६० ।।
विभक्तानि तान्यत्र लब्धं विशुद्ध' समाभ्यो गताभ्यो भवन्ति क्षयाहाः॥३॥


 वा० भा०--स्पष्टम्।

 अत्रोपपत्तिः ॥ यदि कल्पवर्षेः कल्पक्षयाहा लभ्यन्ते तदैकेन किमिति ॥ फलमेकस्मिन् वर्षे क्षयाहाद्यम् ५ ॥ ४८ ॥ २२ ॥ ७ ॥ ३० । अस्मात् पञ्च विशीध्य शेषेणाब्दा गुणिता अवमाद्यं भवति ॥ तत्र लाघवार्थं शेषं रूपाद्विशोध्योर्वरितमभ्रभूपैः १६० सर्वाणितं जातम् ३१॥१॥ ततोऽनुपातः ॥ यद्यभ्रभूपैर्वषैरेकत्रिशद्दनानि घटिकयाऽधिकानि लभ्यन्ते तदा गताब्दैः किमिति ॥ अत्र स्वषष्ट्यंशयुक्तानि वर्षाणि खरामाहतवर्षयुतानि एकत्रिशता नाड्यधिकया गुणितानि भवन्ति । अत्राभ्रभूपै-१६० लब्धफलेन गताब्दा अतो वजिताः कृताः ॥ यतः प्रत्यब्दं षष्ठेऽवमे यन्न पूर्यंते तद्गृहीत्वा कर्म कृतमिति सर्वमुपपन्नम् ॥ ३ ॥


 वा० वा०-क्षयानाह स्वषष्ट्यंशयुक्तानि वर्षाणीति।

 तत्रैकवर्षेऽवमदिनानि ॥५॥४८॥२२॥७॥३०॥ अत्र कार्यान्तरवशेनैभ्यः पञ्चदिनानि त्यक्त्वा यच्छेषं तदेव क्षयाहपदेनोच्यते । तस्मात् क्षयाहाः ॥०॥४८॥२२॥७॥ ३०॥ अत्र दिनस्थाने रूपं गृहीत्वा यावन्ति वर्षाणि तावन्तः' क्षयाहा इति जातम् । अत्रेदमधिकम् ॥०॥११॥३७॥५२॥३०॥ गृहीतमासीदिति शोध्यम् । यदेव शोध्यते तदेवास्वमिति व्यवह्रियते । न हि स्वरूपेणाङ्कानामृणत्वं धनत्वं वास्ति, किन्तु कार्यान्तरवशात् यथास्थितेषु गृह्यमाणेषु २ यावत्तेभ्योऽल्पं गृह्यते तदेव धनमिति । याव


१.तावत् ग पुम    २. मानेयु इ० ग पु० ॥