पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
मध्यमाधिकारे प्रत्यब्दशुद्धष्यध्याय:


दिनानि । एवं खण्डत्रयेण साध्यमानेष्वधिदिनेषु दिनादिक्षयाहादिदिग्ध्नाब्दयोग इति तल्लघ्वहर्गणोपयोगित्वेनावमघटीशोधनमिति प्रतिपादयिष्यते ॥५॥

 अथ प्रकारान्तरेणाधिमासानयनमाह ।

द्विधाब्दा द्विरामैः ३२ खरामै-३० श्च भक्ताः फलैक्यं शिवघ्नाब्दयुक्ततं विभक्तम् । खरामैस्तु ते वाधिमासाश्र शेषं भवेच्छुद्धिरूनाहनाडीविहीनम् ॥ ६ ॥

 वा० भा० - स्पष्टार्थम्।

 अत्रोपपत्तिः ॥ प्रत्यब्दं यान्यधिमासशेषसम्बन्धिदिनानि ११ ॥ ३ ।। ५२ ॥ ३० । एभिः किलाब्दा गुण्यास्त्रशता ३० हृता अधिमासा भवन्ति । तत्र लाघवाथंमेभ्य एकादश विशोध्य शेषम् ० ॥ ३ ॥ ५२ ॥ ३० । खाष्टवेदै-४८० गुंणितं जातमेर्कात्रंशत् ३१ । अनेना।ब्दा गुण्याः किल खाष्टवेर्द-४८० भञ्ज्याः । तत्राचार्येण रूपविभागाद्गुणकस्य खण्डद्वयं कृतम् । तत्राद्य पञ्चदश द्वितीयं षोडश ॥ उभयत्र हरः स एव ॥ ततः खण्डाभ्यां हरे पृथगपर्वातिते जात अाद्यो हरो द्वत्रिंशत् ३२ अन्यस्त्रिशत् ३० । अतो द्वत्रिंशता त्रिशता च पृथग्गताब्दा भक्ताः । फर्लक्यमेकादशगुणाब्दयुतं त्रिशद्भक्ततं फलमधिमासाः ॥ शेषं प्राग्वच्छुद्धिरित्युपपन्नम् ॥ ६ ॥

 वा० वा०-अत्रापि प्रकारान्तर द्विधाब्दा द्विरामैरिति ।

 अत्राधिदिनानां ।।११॥३॥५२॥३० खण्डत्रयं कृतम् । एकम् ।।११। द्वितीयम् ।०॥२॥ तृतीयम् ।।०॥१॥५२॥३०॥ तत्र प्रथमे शिवघ्नाब्दाः । द्वितीयं त्रिशता सर्वाणतम् । तृतीयन्तु द्वात्रिशतेति सर्वं निरवद्यम् ॥ ६ ॥

 इदानीं दिनाद्यन विनाऽप्यब्दाधिपानयनमाह।

गताब्दाधिमासान्तरं द्विध्नमाढ्यं क्षयाहैर्गतैः सप्तभक्तावशिष्टम्।
विशुद्धञ्च शुद्धः स वर्षाधिपो वा भवेत् सप्तभक्तावशिष्टोऽर्कपूर्वः ॥७॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । रव्यब्दान्ते योऽहर्गणस्तत्र यो वारः सोऽब्दाधिपः ॥ प्रत्यब्दं सौरदिनसङ्खया षष्टव्यधिकं शतत्रयम् । तस्मिन् ससतष्टे त्रयोऽवशिष्यन्ते मासदिनेषु ससतष्टेषु द्वयमवशिष्यतेऽतो गताब्दास्त्रिगुणा गताधिमासा द्विगुणास्तद्वैक्यं ससतष्टं यावद्भवति तावदेव चैत्रादेः प्रागतीते तिथिगणे सप्सतष्टेऽवशेषं स्यात् । तत् किल शुद्धितिथिषु योज्यम् । ततः पूर्वलब्धाः क्षयाहाः शोध्याः ॥ तथा प्रत्यब्दं पञ्च पञ्च । अतोऽब्दाः पञ्चगुणाः शोध्याः ॥ पूर्वं त्रिगुणाः क्षेप्याः ॥ अतो द्विगुणा शोध्या एव । द्विगुणाः किलधिमासाश्च योज्याः । अती लाघवार्थमधिमासोना अब्दा द्विगुणास्तैर्लब्धावमैश्च ससतष्टै: शुद्धिरूना सप्ततष्टा रव्यब्दान्ते वारो भवति । स एवाब्दप इत्युपपन्नम् ॥७॥

 वा० वा०-इदानीं दिनाद्यन विनाप्यब्दपमाह गताब्दाधिमासान्तरमिति ।

 अत्र भाष्यकारः । सौरवर्षाणि षष्टव्यधिकशतत्रयगुणितानि सौरदिनानि भवन्ति । तेषु गताधिमासास्त्रिशद्गुणिता योज्यास्ते चान्द्राः भवन्ति । तेषु पूर्वानीतक्षयाहाः पञ्चगुणाब्दयुक्ताः शोध्यास्ते सावनाः सौरवर्षादौ भवन्ति । शुद्धिश्च योज्या । ततः सप्ततिष्टाः कार्याः ॥ स सौरवर्षादौ वारो भवति ॥ तत्रैवं कृतम् ॥ वर्षदिनानि ३६०॥ सि०-१०