पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
मध्यमाधिकारे कक्षाध्यायः

भ्रमतो मेषादेर्या गतिः सैवोच्चगतिरित्युच्यते । कक्षास्थप्रदेशविशेषत्वेन सिद्धस्योच्चस्य को नाम भिन्नकक्षास्थितत्वं वदेत् । तथैव प्रतिमण्डलेन गच्छतो ग्रहस्य यत्र प्रदेशे शराभावः स एव प्रदेशः पात इति । तस्मादस्ति मिथो ग्रहाणां वैषम्यं ग्रहतुङ्गपातेभ्य इति सिद्धम्* ।

 एवं विसदृशगतीनां तुङ्गपातग्रहाणामेककक्षास्थितत्वमुक्तम् । अधुना तुल्यगतीनामपि रविबुधशुक्राणां कक्षाभेदमाह।

 अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयनार्थमेव ।

 ‘उत्ते तयोर्ये चलतुङ्गकक्षे तत्रैव तौ च भ्रमतोऽर्कगत्या' ॥

 कक्षासाधनप्रकारेण साधिते कक्षे ज्ञशुक्रयोश्चलोच्चकक्षे एव भवतः ।

 ज्ञशुक्रमध्यकक्षाभ्यां खकक्षातो भागे गृहीते ज्ञशुक्रचलोच्चभगणाः भवन्ति ।

ज्ञशुक्रयोर्मध्यगतौ साध्यमानायां रविमध्यगतितुल्यैव तयोर्गतिरुत्पद्यते । अत उत्तं चलतुङ्गकक्षायामेव ज्ञशुक्रयोरकीमध्यगत्या भ्रमणमिति । किन्तु ज्ञशुक्रयोयोजनात्मिकागतिः पादोनगोक्षधूतिभूमितयोजनेभ्यो भिन्ना । कक्षाभिन्नत्वे योजनात्मककलात्मक- गत्योरभेदासंभवात् । लघुवृत्ते लघ्व्यः कला, महतिवृत्ते महत्य इति कलात्मकगतेरेकत्वस्वीकारे योजनगतिरवश्यं भिद्यत इति भावः। *तयोर्गतेरानयनं त्रैराशिकेन। मध्यचलोच्चकक्षायोजनानि चक्रकलाभिस्तदा रविमध्यगतितुल्यकलाभिः किमिति ज्ञशुक्रयोर्योजनात्मिके गती भवतः । अतः सर्वं निरवद्यम् ॥१-९॥

 

॥ इति कृष्णदैवज्ञात्मजनृसिहकृतौ कक्षाध्यायः ॥

  इदानों स्वमतमाह-

- ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि ।
यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्ततं खकक्षारत्यमिदं मतं नः ॥ ३ ॥

 वा० भा०-स्पष्टार्थम्। ३ ।।

 इदानी ग्रहकक्षा आह ।

ग्रहस्य चक्रेर्विहता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम् ।
ग्रहः खकक्षामितयोजनानि भ्रमत्यजस्रं परिवर्त्तमानः ।। ४ ।

 । वा० भा०-सा खकक्षा यस्य यस्य भगणेंह्रियते तस्य तस्य ग्रहस्य कक्षामितिर्लभ्यते । अस्योपपत्तिरूपं श्लोकस्योत्तरार्धमिति । यतः स्वकक्षायां ग्रहो भ्रमन्नजस्रं परिवर्त्तमानः खकक्षामितानि योजनानि पूरयति ॥ अतो ग्रहभगणैर्भक्तायाः खकक्षाय यल्लभ्यते सा ग्रहकक्षामितिरित्युपपन्नम् । ४ ।।


१. सिद्धि ग पु० ॥ २. भदशह ग पु० ॥ ३. तथेर्गते ग पु० ॥

सिम्-९