पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/109

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० वा०-अथ कक्षाध्यास्तत्र ग्रहकक्षाखकक्षयोज्ञानोपायो' भगणोपपत्तौ

चिन्तितः । नक्षत्रकक्षाज्ञानं भूगर्भभूपृष्ठस्थक्षितिजान्तराले दृङ्मण्डले

स्वस्वक्षितिजोध्र्वशङ्कुद्धयान्तरकलाभ्यः सुगमम् ।

२पश्येज्जलादौ प्रतिबिम्बितं भं खेट दृगौच्यं गणयेच्च लम्बम्।
तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत्सूर्यहतं प्रभा स्यात्।।

 छायातः शङ्कर्यः स तु भूपृष्ठस्थक्षितिजात् । त्रिप्रश्नविधिना भौमादिवन्न- क्षुत्रशङ्कः सुध्यः । सं तु भूगर्भस्थ्रक्षिर्त्ज़िादूर्ध्वं भवति । आभिः शङ्क्वन्तर्कलाभि- भूव्यासोर्द्धयोजनानि तदा चक्रलाभिः किमिति भकक्षा भवति । सा च रविकक्षातः षष्टिगुणोत्पद्यते । कक्षासाधनस्य मनुष्यैरेवं कर्तुमशक्यत्त्वादागम एव कक्षामाने प्रमाणमित्युक्तम् । स्वकक्षातो वा शङ्क्वन्तरसाधनं वैपरीत्येन । रवीन्द्वोरेव मध्यक- क्षातः शङ्क्वन्तरसाधनम् ।

 भौमादीनान्तु ।

 'ग्रहस्य कक्षा चलकर्णनिध्नी स्फुटा भवेद्धव्यासदलेन भत्ता।'

 इति स्फुटकक्षातः शङ्क्वन्तरं साध्यम् । अथ ग्रहकक्षोपरि चलोच्चकक्षाऽस्ति तदधो वा। *नाद्यः। ग्रहापेक्षया चलोच्चगतेरल्पत्वं प्रसज्येत तच्चायुक्त प्रत्यक्षविरो- धातू । न द्वितीयः । भूगर्भाद्दूरतरप्रदेशावस्थितिनिबन्धनोऽयमुच्चव्यपदेशो बाध्येत । दूरप्रदेशावस्थितत्वं नाम स्वीयग्रहादनधः स्थितत्वम् । तस्माद् ग्रहकक्षैव तुङ्गपातयो:* कक्षेत्याह ।

 ‘ग्रहस्य कक्षैव हि तुङ्गपातयोः पृथक् च कल्पाऽत्र तदीयसिद्धये' ।

 ग्रहकक्षाया उच्चप्रदेशस्यैवोच्चत्त्वव्यपदेशः । ग्रहकक्षाया यत्र विमण्डलेन संयोग- स्तत्प्रदेशस्य पात इति संज्ञा । कुजगुरुशनिचलोच्चानां प्रत्यक्षोपलब्धगतेर्मध्यरविगति- तुल्यत्वदर्शनान्मध्यरविश्चलोच्चमिति कल्पना । वस्तुतस्तु स्वीयग्रहकक्षास्थानामेव चलोच्चानां नन्दाक्षाः कला भुजगाश्च विकला गतिरिति । अत्र ‘ग्रहस्य चक्रविहृता खकक्षा भवेत् स्वकक्षा' इति या तुङ्ग पातानां पृथक् कक्षा समायाति सा तु ।

 'स्वया स्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिका ग्रहाः ।

 इति प्रकारेण तेषां साधनार्थमेवोपयुज्यते । न तेषामवस्थित्यर्थमित्यर्थः । सम- मण्डलमप्राप्तस्य रवेः समशङ्कू'त्पत्तिवत् । नन्वेवं ६ विसदृशगतीनां तुङ्गपातग्रहाणा- मेककक्षास्थित्यङ्गीकारे रव्यादीनां ग्रहाणां सर्वेषामप्येककक्षास्थितत्वं कुतो न स्यात् ! ’ स्यादेतद्यदि ग्रहभेदयोगकाले ग्रहबिम्बयोरूध्र्वाधरत्वानुभवो न भवेत् । शीघ्रफला- भावे भूमेर्दूरतरप्रतिमण्डलप्रवेशावस्थितो ग्रह एवोच्चपदेनोच्यते। प्रतिमण्डले विलोमं


१. ग्रहा ग० पु० ।   २. ग्रहला० ग्रहच्छा० ३ श्लो०।

३. लाद्य दू० ग पु० ।   ४. कक्षोत्याह ग पु० पा०॥

५. कून्यतिवन् ग० पु० कूत्पत्यवन् क० ख पु० च० ॥  ६. विशूद्दश ग० पु० ॥