पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
सिद्धान्तशिरोमणौ ग्रहगणिते

 इदानीमेवं सिद्धे रवीन्दुकक्षे भकक्षाञ्चाह ।

सार्धाद्रिगोमनुसुराब्धिमिताऽर्ककक्षा ४३३१४९७
चान्द्री सहस्रगुणिता जिनरामसंख्या' ३२४००० ॥
अभ्रेष्विभाङ्कगजकुञ्जरगोऽक्षपक्षाः २५९८८९८५०
कक्षां गृणन्ति गणका भगणस्य चेमाम् ॥ ५ ॥

 वा० भा०-रवेः कक्षा४३३१४९७ । चान्द्रकक्षा ३२४००० । भकक्षा २५९८८&८५० । अत्राककक्षातो भकक्षा षटिगुणा । 'अकीं भषष्ट्यंश' इत्यागमप्रामाण्येनाङ्गीकृता । एवमन्येषामपि ग्रहाणां कार्याः ।। ५ ।।

 इदानों ग्रहगतियोजनान्याह ।

कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा
भक्ता भवेद्दिनगतिगंगनेचरस्य ।
पादोनगोऽक्षधृतिभूमितयोजननि ११८५८ ।। ४५
खेटा व्रजन्त्यनुदिनं निजवत्र्मनीमे ॥ ६ ॥

 वा० भा०-अत्रोपपत्तिः । यदि कुदिनैः खकक्षामितयोजननि गच्छन्ति तदैकेन किमिति । फलं दिनगतियोजनानि । तानि च स्थूलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः ।। ६ ।।  इदानी ग्रहानयनमाह ।

अहगणातू कक्षिनवाडू-९९२१ निघ्नान्वेन्दुवेदेषुहुताश-३५४१९ लब्ध्या ।
अहर्गणो गोऽक्षधृतीन्दु-११८५९ निध्नो विवर्जितः स्युर्गतयोजनानि ॥७।।
स्वया स्वया तानि पृथक् च कक्षया हुतानि वा स्युर्भगणादिका ग्रहाः ।

 वा० भा० -अहर्गणे भूनेत्र नवनन्दगुणे ९९२१ नवशशिश्रुतिबाणाग्निभिर्भक्त ३५४१९ यल्लब्धं तेन विर्वाजितः कार्यः । कः । नन्देन्द्रियधृतीन्दु ११८५९ गुणोऽहर्गणः । एवं गतयोजनानि स्युः । तेभ्यः पृथक् पृथक् स्वया स्वया कक्षया भाजितेभ्यो भगणाद्या ग्रहा लभ्यन्ते ।


१. शेषाणा ग्रहाणामपि कक्षाप्रमाणानि श्रीपतिनोक्तानि ।

 *'अष्टव्यङ्कषण्मनुगजाः ८१४६९१६ क्षितिनन्दनस्य

 ज्ञस्येशदन्तकृतखेन्दुमिता-१०४३२११ ऽथ सूरेः ।

 रूपाश्विनागयुगार्शलगुणेन्दबाणाः ५१३७४८२१

 खाग्न्यङ्गसागररसोत्कृतयः २६६४६३० सितस्य ॥

 भूधराहिनगनागरसर्तुक्ष्माधराश्विशशिनः १२७६६८७८७ शनिकक्षा ।।'

     सि० शे० मध्यमा० ६४-६५ श्लो० ।। r