पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९२३
बालमनोरमा ।

एकशालाशब्दादिवार्थे ठज्वा । पक्षे ठक् । एकशालेव एकशालिकः- ऐकशालिक‌ ।

२०६५ ॥ कर्कलोहितादीकक् । ५-३-११०)

कर्क: शुक्लोऽश्वः । स इव कार्कीकः । लौहितीकः स्फटिकः ।

२०६६ । पूगाञ्ञ्जयोऽग्रामणीपूर्वात् । (५-३-११२)

इवार्थो निवृत्तः । नानाजातीयाः अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहेितध्वज्यः । 'व्रातच्फञोरस्त्रियाम् (सू ११००) । व्रातः । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । व्राघ्रायन्यः ।

२०६७ । आयुधजीविङ्घाञ्ञ्यङ् बाहीकेष्वब्राह्मणराजन्यात् । (५-३-११४)

बाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे व्यट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । “आयुध-' इति किम् । मल्लाः । 'सङ्घ-' इति किम् । सम्राट् । “बाहीकेषु' किम् । शबरा : । ‘अब्राह्मण-' इति किम् । गोपालवाः । सालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ।


भावः । ठञ्चेत्येव सुवचम् । कर्कलोहितादीकक्। कर्कः शुक्लोऽश्वः इति ॥ अश्वपर्यायेषु “सितः कर्कः” इत्यमरः । लौहितीकः स्फटिक इति ॥ जपापुष्पादिसम्पर्कवशाल्लोहित इत्येवेत्यर्थः । पूगाञ्ञ्जयः ॥ इवार्थो निवृत्त इति ।। व्याख्यानादिति भाव । अनियतवृत्तय इति ।। उद्धृता इत्यर्थः । तद्वाचकादिति।। पूगेति न स्वरूपग्रहणम् । व्याख्यानात् । ग्रामणीवाचकपूर्वावयवकभिन्नात् पूगवाचकादित्यर्थ । लौहितध्वज्यः इति ।। लोहिताः ध्वजाः यस्य पूगस्य स एव लौहितध्वज्यः । व्रातच्फञोरस्त्रियामिति ॥ इदं सूत्रं “गोत्रे कुञ्चादिभ्यः’ इत्यत्र प्रसङ्गादुपादाय व्याख्यातम् । व्रातः इति ।। उदाहरणसूचनमिदम् । भारोद्वहनादिशरीरायासजीवनात् नानाजातीयानामनियतवृत्तीनां सङ्घो व्रातः । कापोतपाक्य इति । कपोतान् पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः । स एव कापोतपाक्यः । पचेः कर्मणि घञ्, “चजोः कुघिण्ण्यतोः' इति कुत्वम् । च्फञिति ।। उदाहरणसूचनमिदम् । कौञ्जायन्य इति ॥ “गोत्रे कुञ्जादिभ्यः’ इति च्फञ् । आयन्नादेशः। ततः स्वार्थे अनेन व्यः । एव ब्राध्नायन्यः । आयुधजीवि ॥ बाहीकेष्विति ।। बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति ॥ क्षुद्रको नाम कश्चिदायुधजीविनाम्बाहीकदेशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति ॥ मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनां सङ्घः । स एव मालव्यः । टित्त्वात् ङीबिति ॥ एवम् अस्त्रियामिति नात्र सम्बध्यते इति भावः । तद्विशेषेति ॥