पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२४
[ स्वार्थिक
सिद्धान्तकौमुदीसहिता

२०६८ । वृकाट्टेण्यण् । (५-३-११५)

आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । 'आयुध-' इति किम् । जातिशब्दान्मा भूत् ।

२०६९ । दामन्यादित्रिगर्तषष्ठाच्छः । (५-३-११६)

दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिगर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः । 'आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी । क्रौष्टुकिर्जालमानिश्च ब्राह्मगुप्तोऽथ जालकिः ॥' दामनीयः । दामनीयौ । दामनयः । औलपि, औलपीयः । त्रिगर्त, कौण्डोपरथीयः । दाण्डकीयः ।

२०७० । पर्श्वादियौधेयादिभ्योऽणञौ । (५-३-११७)

आयुधजीविसङ्घवाचिभ्यः एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ।


व्याख्यानादिति भावः । वृकाट्टैण्यण् ॥ वृको नाम कश्चिदायुधजीविसङ्घः । स एव वार्केण्यः । आदिवृद्धिः । रपरत्वम् । जातिविशेषादिति ॥ वृको नाम कश्चिन्मनुष्यखादी चतुष्पाज्जाति विशेषः प्रसिद्धः । तस्मान्नेत्यर्थः। दामन्यादि ॥ दामनिः आदिर्यस्य दामन्यादिः । त्रिगर्तः षष्ठो यस्य वर्गस्य सः त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहारद्वन्द्वात्पञ्चमी । फलितमाह ।दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति ॥ आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगर्तःवर्गः, तेभ्यः षड्वर्गेभ्यः इति यावत् । के ते त्रिगर्तषष्ठा इत्यत आह । आहुरिति।। । कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राह्मगुप्तः, जालाकिः, इत्येतान् त्रिगर्तषष्टान् आहुरित्यर्थः । जालकिरिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौण्डोपरथब्राह्मगुप्तशब्दौ शिवाद्यणन्तौ। शेषः इञन्तः । दामादिगणम् उदाहरति । दामनीय इति ।। दामनिरेव दामनीय । औलपीति ।। प्रकृति प्रदर्शना । औलपीय इति ॥ औलपिशब्दात् स्वार्थे छः । त्रिगर्तेति ।। त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति ॥ कौण्डोपरथशब्दात्स्वार्थे छ: । दाण्डकीय इति ॥ दाण्डकिशब्दात् स्वार्थे छः । क्रौष्टुकीयः, जालमानीयः, ब्राह्मगुप्तीयः, जालकीय इत्यप्युदाहार्यम् । पर्श्वादियौधेयादि । एभ्य इति ।। पर्श्वादिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव इति ॥ पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वर्थेषु 'द्व्यञ्मगध' इत्यण् । ततोऽपत्यसंङ्घविवक्षायामनेन अण्णिति भावः । पार्शवौ । पर्शव इति ॥ अपत्यसङ्घबहुत्वविवक्षायां प्रकृतस्याणोऽपि तद्राजत्वाल्लुक् ।'ञ्यादयस्तद्राजाः’ इति वक्ष्यमाणत्वादिति भावः। यौधेय इति ॥ युधाशब्दादपत्येऽर्थे ‘द्व्यचः’ इति ढक् । तदन्तादपत्यसङ्घविवक्षायामनेन