पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२२
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

इह काकताळसमागमसदृशश्चोरसमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीय । अतर्कितोपनत इति फलितोऽर्थः ।

२०६२ । शर्करादिभ्योऽण् । (५-३-१०७)

शर्करेव शार्करम्

२०६३ । अङ्गुल्यादिभ्यष्ठक् । (५-३-१०८)

आङ्गुलीव अङ्गुलिकः भरूजेव । भारूजिकः ।

२०६४ । एकशालायाष्टजन्यतरस्याम् । (५-३-१०९)


तथाहि काकागमनमिव ताळपतनमिव काकताळमिति समासस्य विग्रहः । अत्र काकशब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः । ताळशब्दस्तु ताळपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशन्देवदत्तागमनन्ताळपतनसदृशश्चोरागमनमिति च काकताळमिति समासाद्बोधः । यद्यप्यत्र काकताळशब्दयोः मिळितयोरेकत्रान्वयाभावात् द्वन्द्वसमासो न संभवति परस्परान्वयाभावेन असामर्थ्याच्च । तथापि अस्मादेव विधिबलात् 'सुप्सुपा' इति समासः । तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः । तदाह । इह काकताळसमागमसदृशश्चोरसमागम इति समासार्थ इति ॥ अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविधात्समासात् काकताळशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकताळशब्दभूतप्रकृत्यर्थरूपकाकताळसमागमसदृश देवदत्तचोरसमागमे उपस्थिते सति ताळपतनकृतकाकमरणे उपस्थिते उपमानत्वं देवदत्तवधे चोरागमनकृते उपमेयत्त्वञ्च छप्रत्ययेन गम्यते । ततश्च चोरसमागमे सति ताळपतनकृतकाकमरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह । तत्प्रयुक्तः इति ॥ तादृशताळपतनप्रयुक्तेत्यर्थः । सदृश इत्यनन्तरन्देवदत्तवध इति शेषः । तथा च काकताळसमागमसदृशो देवदत्तचोरसमागमः, तद्धेतुकस्ताळपतनकृतकाकमरणसदृशश्चोरकृतो देवदत्तवध इत्येव काकताळीयो देवदत्तवध इति समासाद्बोधः । एतदेवाभिप्रेत्योक्तं भाष्ये “काकागमनमिव ताळपतनमिव काकताळम् । काकताळमिव काकताळीयम्” इति । अत्र काकताळमिति इवार्थगर्भितकेवलद्वन्द्वात् न भवति इवान्तरार्थस्य सादृश्यान्तरार्थस्यप्रतीतेरित्यलम् । अजाकृपाणीयः इति ॥ अजागमनमिव कृपाणपतनमिव अजाकृपाणम्, तदिव अजाकृपाणीयः । अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः । कृपाणपतनप्रयुक्ताजामरणसदृशो देवदत्तवध्श्चोरकृतः प्रत्ययार्थः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह। अतर्कितेति ।। शर्करादिभ्योडण् ।। इव इत्येव। शार्करमिति ।। 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति विशेष्यनिघ्नतेति भावः ।अङ्गुल्यादिभ्यष्ठक् ॥ इवेत्येव । अंगुळीवेति ।। अङ्गुळिशब्दात् “कृदिकारादक्तिनः’ इति ङीष् । अङ्गुलिक इति ॥ पूर्ववद्विशेष्यनिघ्नता । भरूजेवेति ।। भारूजिक इति ।। पूर्ववद्विशेष्यनिघ्नता । एकशालायाः॥ पक्षे ठगिति।। अन्यतरस्याङ्ग्रहणम् अनन्तरठकः समुच्चयार्थमिति