पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९१५
बालमनोरमा ।

२०३७ । जातिनाम्नः कन् । (५-३-८१)

'मनुष्यनाम्नः' इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः । 'द्वितीयं सन्ध्यक्षरं चेत्तदादेर्लोपो वक्तव्य:’ (वा ३३०३) । कहोडः । कहिकः । एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्य:’ (वा ३३०६) । वागाशीर्दत्तः । वाचिकः । कथं षडङ्गुलिदत्त: षडिक इति । 'षषष्ठाजादिवचनात्सिद्धम्' (वा ३३०७)


शब्देन्दुशेखरे । उपक इति ॥ वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति ॥ घनि रूपम् । उपिल इति ॥ इलचि रूपम् । उपिक इति ॥ ठचि रूपम् । उपेन्द्रदत्तक इति ॥ कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न । जातिनाम्नः कन् ॥ जातिशब्दो य इति ॥ यः जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतस्स इत्यर्थः । ‘अनुकम्पायाम्' इनि 'नीतौ' इति च सूत्रद्वयविहितस्यापवादः । द्वितीयं सन्ध्यक्षरं चेदिति ॥ एचस्सन्ध्यक्षराः' इति प्राचामाचार्याणां प्रवादः । कहोड इति ॥ ऋषिविशेषस्य नामेदम् । अत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेर्लोपः । नतु तदूर्ध्वस्यैव । एकाक्षरेति ॥ व्यञ्जनसहितं एकोऽच् एकाक्षर एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशब्दो यौगिकः । नतु समासस्य चरमावयवे रूढः व्याख्यानात् । द्वितीयादच ऊर्ध्वमित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम् । वागाशीर्दत्त इति ॥ वाचि आशीः यस्य नतु मनस्येव सः वागाशीः । तेन दत्त इति विग्रहः । यद्वा आशासनमाशीः, वाचा आशीः वागाशीः । 'कर्तृकरणे कृता' इति समास । तया वागाशिषा दत्त इति विग्रहः । वाक्करणकाशासनेन दत्तः इत्यर्थः । वाचिक इति ।। वागाशीर्दत्तशब्दात् ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीर्दत्तशब्दयोर्लोपे सति अन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन बाधान्निवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि इकादेशात् प्राक् ठावस्थायामेव उत्तरपदलोपे कर्तव्ये असिद्धत्वान्न पूर्वे कुत्वादिप्रवृत्तिरित्याहुः । यद्यपि द्वितीयादच ऊर्ध्वस्य शीर्दत्तशब्दस्य लोपे वागा इक इति स्थिते 'यस्येति च' इत्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोः निवृत्तौ वाचिक इति सिद्ध्यति । तथापि आकारलोपस्य स्थानित्त्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्य अव्याघातात् कुत्वजश्त्वयोः वागिकः इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्वाभावात्तुल्यावधिकया भसंज्ञया ‘सुप्तिङन्तम्’ इति पदसंज्ञा बाध्ध्यते । एकसंज्ञाधिकारे परत्वादिति भावः । कथमिति ॥ अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाभावात् जश्त्वं दुर्लभमिति प्रश्नः । षष इति ॥ षषशब्दस्य पूर्वपदत्वे 'ठाजादौ' इति सूत्रसिद्धो द्वितीयादच ऊर्ध्वस्यैव लोपः । नत्वयमुत्तरपदलोप इति वचनात् षडिक इति सिद्धमित्यर्थः । एवञ्च षडङगुलिदत्तः इत्यत्र ङकाराकारादूर्ध्वस्य लोपे सति ङकाराकारस्य 'यस्येति च' इति लोपे सति तस्य स्थानिवत्त्वेन