पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१६
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२०३८ । शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्।(५-३-८४)

एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादचः ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः-शवलिकः-शेवलियः-शेवलिलः । सुपरेिकः । विशालिकः । वरुणिकः । अर्यमिकः ।

२०३९ । अजिनान्तस्योत्तरपदलोपश्च । (५-३-८२)

अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् । तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ।

२०४० । अल्पे । (५-३-८५)

अल्पं तैलं तैलकम् ।

२०४१ । ह्स्वे । (५-३-८६)

ह्रस्वो वृक्षो वृक्षकः ।

२०४२ । संज्ञायां कन् । (५-३-८७)

ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ।

२०४३ । कुटीशमीशुण्डाभ्यो रः । (५-३-८८)


अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाव्याधाताज्जश्त्वं निर्बाधमिति भावः । स्पष्टं चेदं 'स्वादिषु' इति सूत्रे भाष्ये । शेवल ॥ एषामिति ॥ शेवल, सुपरि, विशाल, वरुण, अर्यमन्, एतत्पूर्वपदकानामित्यर्थः । पूर्वस्येति ॥ 'ठाजादौ' इत्यस्येत्यर्थ । शेवलिकः इति ।। शेवलदत्तशब्दात् ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः । शेवलिल इति ॥ इलचि रूपम् । सुपरिक इति ॥ सुपरिदत्तशब्दात् ठवि दत्तशब्दलोपः । विशालिक इति ।। विशालदत्तशब्दात् ठचि रूपम् । वरुणिकः इति ।। वरुणदत्तात् वरुणिकः । अर्यमिकः इति ।। अर्यमदत्तात् अर्यमिकः । 'अकृतसन्धीनामेषाम्' इति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः, सुपरिकः इत्यादि सिद्ध्यति। अजिनान्तस्य ॥ व्याघ्रकः इति ॥ व्याघ्राजिन इति कस्य चिन्मनुष्यस्य नाम । तस्मात् कनि अजिनस्य लोपः । सिंहक इति ॥ सिंहाजिनशब्दात् कनि अजिनस्य लोपः । अल्पे ॥ अल्पत्वविशिष्टे वर्तमानात् यथाविहितं प्रत्ययाः स्युः । तैलकमिति ॥ सर्वकम् उच्चकैः पचतकीत्याद्यप्युदाहार्यम् । हृस्वे ॥ ह्रस्वत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः इत्यर्थः । अल्पत्वं महत्वप्रतिद्वन्द्वि,ह्रस्वत्वन्तु दीर्घत्वप्रतिद्वन्द्वीति भेदः । संज्ञायाङ्कन् ॥ वंशक इति । ह्रस्वस्य वेणुजातिविशेषस्य नाम । कुटीशमी ॥ ह्रस्व इत्येव । कुटीर