पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१४
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा लोपो वक्तव्यः' (वा ३२९७) । देवदत्तकः-देवकः ।'लोपः पूर्वपदस्य च' (वा ३२९८) । दत्तिकः-दत्तियः-दत्तिलः-दत्तकः । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य:’ (वा ३२९९) देवदत्तः-दत्तः, देवः । सत्यभामा-भामा सत्या । उवर्णाल्ल इलस्य च' (वा ३३०३) । भानुदत्तः-भानुल । '[१]ऋवर्णादपि' (वा ५०५४) । सवित्रियः । सवितृलः । 'चतुर्थादनजादौ च लोप पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥' (वा ३२९६-३३००)

२०३६ । प्राचामुपादेरडज्वुचौ च (५-३-८०)

उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचां ग्रहणं पूजार्थम् । अनुकम्पितः उपेन्द्रदत्तः उपड:-उपकः-उपियः-उपिलः-उपिकः-उपेन्द्रदत्तकः । षड्रूपाणि ।


अनजादौ चेति वार्तिकभागं व्याचष्टे । अनजादौ च विभाषा लोपो वक्तव्य इति ॥ अनजादौ चेति पाठे विभाषेति भाष्यलब्धम् । तत्र देवदत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात् । लोपः पूर्वपदस्य चेति ॥ विभाषेति शेषः । अनजादाविति तु नात्र सम्बद्यते । तदाह । दत्तिक इत्यादि ॥ ठचि घनि इलचि केच रूपम् । अप्रत्यये तथैवेष्ट इति वार्तिकभागं व्याचष्टे । विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति ॥ दत्तः, देवः इति ॥ देवदत्तशब्दात् ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवर्णादिति ॥ ल इति लोपख्य पूर्वाचार्यसंज्ञा । उवर्णात्परस्य इलचो लोपः स्यादित्यर्थः । 'आदेः परस्य’ इति इकारस्य लोपः । चकारेण ठाजादौ द्वितीयादच ऊर्ध्वं लोपः सूत्रसिद्धः अनूद्यते । ऋवर्णादपीति ॥ ऋवर्णादपि परस्य इलच आदेर्लोपः स्यादित्यर्थः । सवित्रियः-सवितृलः इति ॥ घनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्यादृष्टत्वादुपेक्ष्यम् । तदेवं व्याख्यातं वार्तिकं समस्तं पठति । चतुर्थादित्यादि । प्राचामुपादेरडज्वुचौ च ॥ पूर्वविषये इति ॥ ‘बह्वचो मनुष्यनाम्नः’ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति ॥ ठच्, घन्, इलचेत्यर्थः । इमनिज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धेः प्राचाङ्ग्रहण व्यर्थमित्यत आह । प्राचाङ्ग्रहणमिति ॥ उपडः इति ॥ उपेन्द्रदत्तशब्दात् अडवि द्वितीयं सन्ध्यक्षरमिति वक्ष्यमाणेन एकारादेशलोप इति केचित् । 'नेन्द्रस्य परस्य' इति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरेकारादिलोप इति


  1. भाष्ये न दृष्टम्-इति शेखरकृत् ।