पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९११
बालमनोरमा ।

कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ।

२०२८ । अज्ञाते । (५-३-७३)

कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । 'ओकारसकारभकारादौ सुपि सर्वनान्नष्टेः प्रागकच्, अन्यत्र तु 'सुबन्तस्य टेः प्रागकच्' (वा ३२८४) । युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभि । 'ओकार-' इत्यादि किम् । त्वयका मयका । 'अकच्प्रकरणे तूष्णीमः काम्चत्क्तव्यः’ (वा ३२८५) । मित्वादन्त्यादचः परः । तूष्णीकामास्ते । 'शीले को मलोपश्च' (वा ३२८६) । तूष्णींशीलः तूष्णीकः । पचतकेि । जल्पतकि । धकित् । हिरकुत् ।


तेनाव्ययस्य विशेषणात् तदन्तविधिः । तदाह । कान्ताव्ययस्येति ॥ अकच्चेति ॥ चकारेण तदनुकर्षादिति भावः । एतेन अकच्सन्नियोगशिष्ट एवायं दकारः इत्युक्तम्भवति । अयमपि प्रागिवाधिकारः । अज्ञाते ॥ अज्ञातेऽर्थे विद्यमानात् सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्यय सर्वनाम्नां तिङन्तानाञ्च टेः प्राक् अकच् स्यात् । तत्रापि ककारान्ताव्ययानान्दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति ॥ अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽश्च इति विग्रहः स्यादित्यर्थः । उच्चकैरिति ॥ उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके । विश्वके इति ॥ ननु “अव्ययसर्वनाम्नाम्' इति सूत्रे सुपः इत्यनुवृत्तेः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिः, इत्यत्र सुबन्तानां टेः प्रागकचि युवकयोः आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिः इति न स्युः । युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिः, इति स्युः । यदि तु सुप इत्यननुवर्त्य प्रातिपदिकादित्येवानुवर्त्य प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात्, तर्हि त्वयका, मयकेति न स्यात् । त्वकया, मकया इति स्यादित्यत आह । ओकारेति ॥ वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदन्तु वार्तिकं युष्मदस्मन्मात्रविषयकमेव । भाष्ये तथैवोदाहृतत्वात् । अन्येषान्तु सर्वनाम्नाम्प्रातिपदिकस्यैव टेः प्रागकच्, नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एव “विभक्तौ परतो विहितः किमः कादेशः साकच्कार्थः । "कः-कौ-के" इति भाष्यं सङ्गच्छन्ते । त्वयका, मयकेति ॥ इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकचि तु त्वकया मकयेति स्यादिति भावः । काम्वक्तव्य इति ॥ काम्प्रत्यय इति वृत्तिस्तु चिन्त्या । भाष्य प्रत्ययशब्दस्यादर्शनात् । किन्तु मित्वादागम एवायम् । तदाह । मित्वादिति ॥ अकचोऽपवादः । तूष्णीकामिति ॥ तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः । शीले इति ॥ इदमपि वार्तिकम् । तूष्णीम् इत्यव्ययात् कप्रत्ययः स्यात् मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं