पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१०
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२०२४ । प्रकारवचने जातीयर् । (५-३-६९)

प्रकारवति चायम्, थाल्तु प्रकारमात्रे । पटुप्रकारः । पटुजातीयः ।

२०२५ । प्रागिावात्कः । (५-३-७०)

'इवे प्रतिकृतौ' (सू २०५१) इत्यतः प्राक्काधिकारः ।

२०२६ । अव्ययसर्वनाम्नामकच्प्राक्टेः । (५-३-७१)

तिङश्च' (सू २००२) इत्यनुवर्तते ।

२०२७ । कस्य च दः । (५-३-७२)


प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमार्थत्वात् । नचैवं सति प्रकृते बहुपटुरिति समुदायस्य पूर्वोत्पन्नसुविशिष्टस्य कथम्प्रातिपदिकत्वम्, असमासत्वादिति वाच्यम् । यत्र सङ्घाते पूर्वोभागः पदान्तस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमशरीराभ्युपगमात्, इति प्रागुक्तं न विस्मर्तव्यम् । न च समर्थानामिति वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यम् । बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्तिः, इति सिद्धान्तात् बहुजभावे वाक्यमेव स्यात् । नच कल्पवादीनाम्बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्क्यम् । तेषान्तिडन्ते सावकाशत्वात् इति भाष्ये स्पष्टम् । एतदभिप्रेत्य आह । पटुकल्प इति ।। ननु सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुब्ग्रहणं व्यर्थमिति पृच्छति । सुपः किमिति ॥ तिङश्चेत्यनुवृत्तिनिवृत्त्यर्थे सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्ने भविष्यति इति वाच्यम् । “अव्ययसर्वनाम्नाम्' इत्याद्युत्तरसूत्रे तिङश्चेत्यनुवृतेरावश्यकतया तस्य स्वरितत्वावश्यकत्वात्” इति भाष्ये स्पष्टम् । एतदभिप्रेत्य आह । यजतिकल्पमिति ॥ “तुग्रहणन्तु ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते, क्वचिदतिवर्तन्ते' इति ज्ञापनार्थम्” इति भाष्ये प्रपञ्चितम् । प्रकारवचने ॥ “प्रकारवचने थाल् इत्यतोऽस्य वैलक्षण्यमाह । प्रकारवति चायमिति ॥ प्रकारवत्येवेत्यर्थः । थाल् तु प्रकारमात्रे इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम् । अविशेषात् । अन्यथा तथेत्यत्र सः प्रकारः इत्येवार्थः स्यात् । नच किमादिभ्यो विशिष्य विहितेन थाला तज्जातीयः इत्याद्यसिद्धिरिति वाच्यम् । “जात्यन्ताच्छ बन्धुनि' इति तज्जात्यादिशब्दात् छप्रत्ययेनैव तज्जातीत्यादि सिद्धेः । अत एव यथाजातीयक इत्यादि भाष्यप्रयोगाः सङ्गच्छन्ते । जयादित्यस्तु अत्र प्रकारभेदः, थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह । वामनस्तु सादृश्य भेदश्चेत्युभयमपि प्रकार इत्याह । प्रागिवात्कः ॥ इवशब्दस्तद्धटितसूत्रपर इति मत्वा आह । इवे प्रतीति॥ अव्यय सर्वनाम्नाम् ॥ अनुवर्तते इति ॥ मण्डूकप्लुत्येति शेषः । अव्ययसर्वनाम्नां तिङन्तानाञ्च टेः प्राक् अकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः । कस्य च दः ।। पूर्वसूत्रे ‘अव्ययसर्वनाम्नाम्' इति समासनिर्देशेऽपि एकदेशे स्वरितत्वप्रतिज्ञाबलात् अव्ययग्रहणमेवात्रानुवर्तते । कस्य इत्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् ।