पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१२
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२०२९ । कुत्सिते । (५-३-७४)

कुत्सितोऽश्वोऽश्वकः ।

२०३० । संज्ञायां कन् । (५-३-७५)

कुत्सिते कन्स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ।

२०३१ । अनुकम्पायाम् । (५-३-७६)

पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ।

२०३२ । नीतौ च तद्युक्तात् । (५-३-७७)

सामदानादिरूपा नीतिः । तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानका: । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ।


स्वभावः । तूष्णीक इति ।। मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् । ‘केऽणः इति हस्वो न भवति । 'अव्ययसर्वनाम्नाम्' इत्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह । पचतकीति ॥ पचतीत्यत इकारात् प्रागकच् । ककारादकार उच्चारणार्थः । अन्यथा इकारात्प्राक् अकच्प्रत्यये आद्गुणे पचतके इति स्यादिति भावः । जल्पतकीति ॥ जल्पतीत्यस्य टेः प्रागकच् । धकिदिति ॥ धिक् इत्यव्ययस्य टेः प्रागकच्, कस्य दश्च । हिरकुदिति ॥ हिरुगित्यव्ययस्य टेः प्रागकच्, कस्य दश्च । कुत्सिते ॥ येन धर्मेण कुत्स्यते वस्तु तद्धर्मयुक्तार्थाभिधायिनः प्रातिपदिकात्स्वार्थे प्रत्ययः स्यादित्यर्थः । अव्ययसर्वनाम्नस्तु टेः प्रागकच्, कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् । तिङश्चेत्यप्यनुवर्तते । अश्वक इति ॥ धावनस्य असम्यक्त्वादश्वस्य कुत्सा बोध्या। सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि । “याप्ये पाशप्’ इति प्रवृत्तिनिमित्तकुत्सायामेव भवति । इदन्तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपि” इति भाष्ये स्पष्टम् । संज्ञायाङ्कन् ॥ कुत्सिते इत्यनुवर्तते । तदाह । कुत्सित इति ॥ तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् । अनुकम्पायाम् ॥ अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कन् स्यादित्यर्थः । अनुकम्पा दया । नीतौ च तद्युक्तात् ॥ सामदानादीति ॥ आदिना भेददण्डयोर्ग्रहणम् । तद्युक्तादित्येतत्व्याचष्टे । अनुकम्पायुक्तादिति ॥ अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते ‘कस्य च दः’ इति च । हन्त ते धानका इति ॥ दास्यन्ते इति शेषः । हन्तेत्यव्ययमनुकम्पाद्योतकम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । हृन्तेत्यदन्तम् । हे पुत्रेति शेषः । अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात् कप्रत्यये 'केऽणः' इति हस्वे कान्तात् टापि ‘अभाषितपुंस्काच्च' इति विकल्पात् पक्षे इत्त्वाभावः । एहकीति ॥ एहीति तिङन्तस्य टेः प्रागकच् । ‘अव्ययसर्वनाम्नाम्’ इत्यत्र तिङश्चेत्यनुवृत्तेरिति भावः । अद्धकीति ।। अद्धीति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति ।। अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धेऽपीति ॥ पुत्रस्साक्षादनुकम्प्यः । तद्द्वारा धाना