पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९०७
बालमनोरमा ।

एषां यणादिपरं लुप्यते, पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । हृसिष्ठः । क्षेपिष्ठः । क्षोदिष्टः । एवम् ईयस् । हृस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ।

२०१६ ॥ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घबृन्दारकाणां प्रस्थस्फवर्बहिगर्वर्षित्रब्द्राघिबृन्दाः । (६-४-१५७)

प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहेिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राधिष्ठः । बृन्दिष्ठ । एवमीयसुन् । प्रियोरुबहुळगुरुदीर्घादीनां पृथ्वादित्वात् प्रेमा, इत्यादि ।


स्थूल, दूर, युवन्, ह्रस्व, क्षिप्र, क्षुद्र, इत्येतेषामित्यर्थः । यणादीति ॥ यण् आदिर्यस्येति विग्रहः । परमिति यणादीत्यस्य विशेषणम्, परभूतं यणादीत्यर्थः । लुप्यते इति ॥ अल्लोपोऽनः’ इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयते इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्यासम्भवात् । पूर्वस्येति ।। पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति ॥ ‘तुरिष्ठमेयस्सु' इत्यतस्तदनुवृत्तेरिति भावः । स्थविष्ठ इति ।। स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः, अवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते । यणादिलोपस्याभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति ॥ दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति ॥ युवन्शब्दादिष्ठनि वन्नित्यस्य लोपे उकारस्य गुणे अवादेशः । परमित्यनुक्तौ यु इत्यस्यापि यणादेर्लोपः स्यात् । हृसिष्ठ इति ॥ह्रस्वशब्दादिष्ठनि व इत्यस्य लोपः । परमित्यनुक्तौ अत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति ॥ क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपे इकारस्य गुण । ‘इको गुणवृद्धी’ इत्युक्तः न पकारस्य गुणः । क्षोदिष्ठ इति ॥ क्षुद्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयस् इति ॥ स्थवीयान्, दवीयान्, यवीयान्, ह्रसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजनमाह । ह्रस्वक्षिप्रेति ।। प्रियस्थिर । प्रियादीनामिति ।। प्रिय, स्थिर, स्फिर, उरु, बहुळ, गुरु, वृद्ध, तृप्र, दीर्घ, बृन्दारक, एषान्दशानामित्यर्थः । प्रादय इति ।। प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्रप्, द्राघि, बृन्द, एते दशेत्यर्थः । इष्ठेमेयस्स्वित्यर्थः । 'तुरिष्ठमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । प्रेष्ठ इति ।। प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । यणादिलोपस्याभीयत्वेनासिद्धत्वादकारोच्चोरणसामर्थ्याच्च न टिलोपः । आद्गुणः । स्थेष्ठ इति ॥ स्थिरशब्दाष्ठदिनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठः इति । स्फिरशब्दस्य इष्ठनि स्फादेशः । वरिष्ठ इति ।। उरुशब्दात् इष्ठनि वर् आदेशः । बंहिष्ठ इति ।। बहुळशब्दस्य बंहि इत्यादेशः । इकार उच्चारणार्थः । अन्यथा यणादिलोपस्याभीयत्वेनासिद्धत्वात् उच्चारणसामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति ।। गुरुशब्दस्य इष्ठनि गर् आदेशः। वर्षिष्ठ इति ।। वृद्धशब्दस्य इष्ठनि वर्षिरादेश । वंहिवदिकार उच्चारणार्थः । ऋषिष्ठ इति ।। तृप्रशब्दस्य