पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०६
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२००९ । प्रशस्यस्य श्रः । (५-३-६०)

अस्य श्रादेशः स्यादजाद्योः ।

२०१० । प्रकृत्यैकाच् । (६-४-१६३)

इष्ठादिष्वेकाच्प्रकृत्या स्यात् । श्रेष्ठः-श्रेयान् ।

२०११ । ज्य च । (५-३-६१)

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ।

२०१२ । ज्यादादीयसः । (६-४-१६०)

'आदेः परस्य' (सू ४४) । ज्यायान् ।

२०१३ । वृद्धस्य च । (५-३-६२)

ज्यादेशः स्यादजाद्योः । ज्येष्ठः—ज्यायान् ।

२०१४ । अन्तिकबाढयोर्नेदुसाधौ । (५-३-६३)

अजाद्योः । नेदिष्ठः-नेदीयान् । साधिष्ठः-साधीयान् ।

२०१५ । स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । (६-४-१५६)


लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् । प्रशस्यस्य श्रः ॥ आजाद्योरिति ॥ इष्टन्नीयसुनोरित्यर्थः । अजादी इत्यनुवृत्तं सप्तम्या विपरिणम्यते इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुणवचनत्वाभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र इष्ठ, श्र ईयस्, इति स्थिते इष्ठेमेयस्सु विहितटिलोपे प्राप्ते । प्रकृत्यैकाच् ॥ एकः अच् यस्येति बहुव्रीहिः । इष्ठादिष्विति ॥ 'तुरिष्ठेमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । "अल्लोपोऽनः, नस्तद्धिते, यस्येति च, टेः’ इत्यादेरेतत्प्रकरणस्थलोपस्यायं प्रकृतिभावः" इति भाष्ये स्पष्टम् । श्रेष्ठः-श्रेयानिति ।। अयमनयोरतिशयेन प्रशस्य इत्यर्थः । ज्य च ॥ ‘ज्य' इति लुप्तप्रथमाकं प्रशस्येति अजादी इति चानुवर्तते । तदाह । प्रशस्यस्येति ॥ ज्येष्ठ इति ॥ 'प्रकृत्यैकाच्’ इति प्रकृतिभावान्न टिलोपः । ईयसुनि ज्यादेशे ज्येयानिति प्राप्ते । ज्यादादीयसः ॥ ज्यात्, आत्, इति छेदः । ज्यात् परस्य ईयसः आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह । आदेः परस्येति ॥ वृद्धस्य च ॥ शेषपूरणेन सूत्रं व्याचष्टे । ज्यादेशः स्यादजाद्योरिति ॥ इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरतिशयेन वृद्ध इत्यर्थः । अन्तिकबाढयोः ॥ अजाद्योरिति ॥ शेषपूरणमिदम् । अन्तिक, बाढ, अनयोः इष्ठेयसुनोः परतः नेद, साध, एतावादेशौ स्त इत्यर्थः । नेदिष्ठ-नेदीयानिति ॥ अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः साधीयानिति ॥ अयमनयोरतिशयेन बाढ इत्यर्थः । बाढो भृशः । "भृशप्रतिज्ञयोर्बाढम्" इत्यमरः । “अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्” इति च । स्थूलदूर ॥ एषामिति ॥