पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९०५
बालमनोरमा ।

२००६ । अजादी गुणवचनादेव । (५-३-५८)

इष्ठन्नीयसुनौ गुणवचनादेव स्तः । प्रथिष्ठः-प्रथीयान् । नेह । पाचकतरः- पाचवतमः ।

२००७ । तुश्छन्दसि । (५-३-५९)

तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ।

२००८ । तुरिष्ठेमेयःसु । (६-४-१५४)

तृशब्दस्य लोपः स्यात् एषु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ।


काच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत् । यद्यप्यत्र द्वे सुवन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम् । व्याख्यानात् । अथ द्विवचनोपपदे उदाहरति । अयमनयोरिति ।। अत्र उपोच्चारितमिदं उपपदम्, नतु कृत्रिमम् । तद्धितविधौ तदसम्भवात् । धात्वधिकार एव तत्प्रवृत्तेरुक्तत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तौ तु गतार्थत्वान्नावश्यकम् । लघीयानिति ॥ ईयसुनि नकार इत्, उकार उच्चारणार्थः, उगित्त्वान्नुम् 'सान्त' इति दीर्घः, हल्ड्यादिसंयोगान्तलोपौ । अथ विभज्योपपदे उदाहरति । उदीच्याः प्राच्येभ्य इति ॥ ‘पञ्चमी विभत्के' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तु दन्ताः स्निग्धतराः इति न सिध्येत् । “बहुषु पुत्रेषु एतदुपपन्नं भवति । अयम्मे ज्येष्ठः, अयम्मे मध्यमः, अयम्मे कनीयान्” इति ‘आद्यन्तवत्’ सूत्रस्थभाष्यप्रयोगात् । नैर्देशिकानां वार्ततरका इति ‘तस्मिन्’ इति सूत्रभाष्यप्रयोगाच्च । अद्व्यर्थोपपदेऽपि तरबीयसुनावित्याहुः । अजादी ॥ तरप्तमौ इष्टन्नीयसुनौ चेति चत्वारः प्रत्ययाः अनुक्रान्ता । तेषाम्मध्ये यौ अजादी इष्टन्नीयसुनौ तावित्यर्थः । तदाह । इष्ठन्नीयसुनाविति । पाचकतरः-पाचकतम इति ॥ क्रियाशब्दत्वादाभ्यामिष्टन्नीयसुनौ नेति भावः । गुणवचनादजादी एवेति विपरीतनियमव्यावृत्त्यर्थः एवकारः। तेन पटुतरः पटुतमः इत्यादि सिद्धम् । तुश्छन्दसि ॥ तृ इत्यस्य तुरिति पञ्चम्येकवचनम्, तृ इत्यनेन तृन्तृचोः सामान्येन ग्रहणम्, प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह । तृन्तृजन्तादिति ॥ अगुणवचनादपि तृप्रत्ययान्तात् प्राप्त्यर्थमारम्भः । एवञ्च पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् । तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन्प्रत्यये कर्तृ इष्ठ इति स्थिते ‘इष्ठेमेयस्सु' इति विहिते टेिलोपे प्राप्ते । तुरिष्ठेमेयःसु ॥ तृ इत्यस्य तुरिति षष्ठ्येकवचनम् । एष्विति ॥ इष्ठन्, इमन्, ईयस्, इयेतेष्वित्यर्थः। अयं लोपसामर्थ्यादन्तादेशः । अन्त्यस्य ऋकारस्य 'टेः' इत्येव सिद्धेः । करिष्ठ इति ॥ अयमनयोरतिशयेन कर्तेत्यर्थः । दोहीयसी धेनुरिति ॥ इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि 'भस्याढे' इति पुंवत्त्वे ङीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताभावात् 'दादेः' इति धत्वस्य निवृत्तौ उगित्त्वात् ङीपि दोहीयसीति रूपम् । ‘युगन्त’ इति गुणस्तु न निवर्तते ।