पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०८
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२०१७ । बहोर्लोपो भू च बहोः । (६-४-१५८)

बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा-भूयान् ।

२०१८ । इष्ठस्य यिट् च । (६-४-१५९)

बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ।

२०१९ । युवाल्पयोः कनन्यतरस्याम् । (५-३-६४)

एतयो: कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कनीयान् । पक्षे यविष्ठः । अल्पिष्ठः इत्यादि ।

२०२० । विन्मतोर्लक् । (५-३-६५)

विनो मतुपश्च लुक्स्यादिष्ठयसोः । अतिशयेन स्रग्वी । स्रजिष्ठः-स्रजीयान् । अतिशयेन त्वग्वान्-त्वचिष्ठः-त्वचीयान् ।


इष्ठनि त्रप् आदेशः । अदुपधः । तृपधातोस्तृप्त्यर्थकादौणादिकं रकि तृप्रशब्दः । द्राघिष्ठ इति ।। दीर्घशब्दस्य इष्ठनि द्राघिरादेशः । बंहिवदिकार उच्चारणार्थः । वृन्दिष्ठ इति ॥ वृन्दारकशब्दस्य इष्ठनि वृन्द आदेशः । अकार उच्चारणार्थः । एवमीयसुन्निति ॥ प्रेयान्, स्थेयान्, स्फेयान्, वरीयान्, बहीयान्, गरीयान्, वर्षीयान्, त्रपीयान्, द्राघीयान्, वृन्दीयान् । अत्र इमनिजननुवृत्तेः प्रयोजनमाह । प्रियोरुबहुळेति ॥ इत्यादीति ॥ वरिमा, बंहिमा, गरिमा, द्राघिमा, स्थेमा, स्फेमा, वर्षिमा, त्रपिमा, बृन्दिमा । बहोर्लोपः ॥ भू इति लुप्तप्रथमाकम् । इष्ठेमेयस्स्वित्यनुवृत्तम् । तत्र इष्ठन् उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न सम्बन्धः । तदाह । बहोः परयोरिति ।। ‘आदेः परस्य’ इति प्रत्यययोरादिलोपः । भूमेति ।। बहुत्वमित्यर्थः । बहुशब्दात् पृथ्वादित्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादेरिकारस्य लोपश्च । भूयानिति ।। अयमनयोरतिशयेन बहुरित्यर्थः । वैपुल्यवाचकात् बहुशब्दादीयसुनि प्रकृतेर्भूभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेनासिद्धत्वादोर्गुणो न भवति । इष्ठस्य यिट् च ॥ लोपः स्यादिति ॥ 'आदेः परस्य' इति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते थिडागमः । ट इत् । टित्त्वात् प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । ‘यदि तु लोप इति निवृत्तं तदा यकार आगमः’ इति भाष्यम् । युवाल्पयोः ॥ इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः-कनीयानिति ।। अयमनयोरातिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति ।। युवन्शब्दादिष्ठनि ‘स्थूलदूर’ इति वनो लोपे उकारस्य गुणे अवादेशे रूपम् । अल्पिष्ठ इति ॥ अल्पशब्दादिष्ठनि टिलोपः । इत्यादीति ।। यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्यम् । विन्मतोर्लुक् ॥ इष्ठेयसोरिति ।। अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । स्रजिष्ठ इति ॥ स्रग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति