पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८०
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

१९०७ । लोमादिपामादिपिच्छादिभ्यः शनेलचः । (५-२-१००)

लोमादिभ्यः श: । लोमश:-लोमवान् । रोमश:-रोमवान् । ' पामा दिभ्यो न ' । पामनः । 'अङ्गात्कल्याणे ' (ग सू ११८) । अङ्गना । “लक्ष्म्या अच्च' (ग सू १२१) । लक्ष्मणः । “विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः’ (वा ३१९४) । विषुणः । ‘पिच्छादिभ्य इलच् । पिच्छिलः-पिच्छवान् । उरसिलः-उरस्वान् ।

१९०८ । प्रज्ञाश्रद्धार्चाभ्यो णः । (५-२-१०१)

प्राज्ञो व्याकरणम् । प्राज्ञा । श्राद्धः । आर्चः । ’वृत्तेश्च ' (वा ३१९५) वार्तः ।

१९०९ । तपःसहस्राभ्यां विनीनी । (५-२-१०२)


लोमादि। श न इलच् एते त्रिभ्यो गणेभ्यो यथासङ्ख्यं स्युर्मत्वर्थे । अङ्गात्कल्याणे इति ।। पामादिगणसूत्रम् । कल्याणं सुन्दरं तद्विशेषकादङ्गशब्दात् मत्वर्थे नप्रत्यय इत्यर्थः । अङ्गनेति ॥ कल्याणानि अङ्गानि अस्याः इति विग्रहः । ‘लक्ष्म्या अच्च' इत्यपि पामादिगणसूत्रम् । लक्ष्मीशब्दात् मत्वर्थे नप्रत्ययः स्यात् प्रकृतेरकारोऽन्तादेशश्च । लक्ष्मण इति ।। लक्ष्मीरस्यास्तीति विग्रहः । नप्रत्यये प्रकृतेरकारे अन्तादेशे णत्वम् । विष्वगिति ।। इदमपि पामादिगणसूत्रमिति केचित् । भाष्ये तु नप्रकरणे इदं वार्तिकं पठितम् । विषु इत्यव्यय सर्वतः इत्यर्थे । विषु अञ्चतीति विध्यङ् । सर्वतो गामीत्यर्थः इति धूर्तस्वामी । विषु इति तिर्यगर्थे इति भवस्वामी । पराङ्मुख इति भट्टभास्करः । विषु अञ्च् इत्यस्मात् अकृतसन्धेर्मत्वर्थे नप्रत्ययः स्यात् उत्तरपदलोपश्चेत्यर्थः । विषुण इति ।।विष्वङ् अस्यास्तीति लौकिक विग्रहः । विषु, अञ्च् इत्यलौकिकविग्रहवाक्यम् । कृतसन्धेर्नप्रत्यये तु विष्वक्शब्दे उत्तरपदस्य लोपे “लोपो व्यो इति यलोपे विषुण इति स्यादिति भावः । समर्थानामित्यस्यापवादोऽयम् । प्रज्ञाश्रद्धार्चाभ्योणः ।। प्रज्ञा, श्रद्धा, अर्चा, एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति ।। प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकात् ज्ञाधातोः 'आतश्चोपसर्गे' इति भावे अड् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानक्रियां प्रति व्याकरणस्य कर्मत्वाद्द्वितीया । कृद्योगषष्ठी नात्र प्रवर्तते । “कर्तृकर्मणोः कृति' इत्यत्र कृद्ग्रहणेन तद्धितयोगे तान्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोःकृतीत्यत्रप्रपश्चितम्। नच प्रजानातीति प्रज्ञः ‘इगुपध'इति कः। प्रज्ञशब्दात् स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्क्यम्। तथासति स्त्रियां डीप्प्रसङ्गात् । तदाह । प्राज्ञेति ।। श्राद्ध इति ।। श्रद्धा अस्यास्तीति विग्रहः । आार्च इति ॥ अर्चा अस्यास्तीति विग्रहः । वृत्तेश्चेति ।। वार्तिकम् । मत्वर्थे णप्रत्यय इति शेषः । वार्त्त इति । वृत्तिरस्यास्तीति विग्रहः । तपःसहस्राभ्याम् ॥ विनिश्च इनिश्चेति द्वन्द्वः । मत्वर्थे इति शेषः । यथासङ्ख्य मन्वयः । विनिप्रत्यये इनिप्रत्यये च नकारादिकारौ उच्चारणार्थौ ननु नकारयोः इत्संज्ञा कुतो