पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८८१
बालमनोरमा ।

विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाद दन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा मा भूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ।

१९१० । अण् च । (५-२-१०३)

योगविभाग उत्तरार्थः । तापसः । साहस्रः । “ ज्योत्स्नादिभ्य उप सङ्ख्यानम्' (चा ३१९७) । ज्यौत्स्नः । तामिस्रः ।

१९११ ।। सिकताशर्कराभ्यां च । (५-२-१०४)

सैकतो घटः । शार्करः ।

१९१२ । देशे लुबिलचौ च । (५-२-१०५)

चादण्मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः—सिकतिलः-सैकतः सिकतावान् । एवं शर्करेत्यादि ।


न स्यात् । नच प्रयोजनाभावः, नित्स्वरस्यैव फलत्वादित्यत आह । विनीन्योरिकारोनकारपरित्राणार्थ इति ।। तथा च उपदेशे अन्त्यत्वाभावान्नेत्संज्ञेति भावः । यद्यपि ‘अस्मायामेधा’ इत्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः । सहस्रशब्दात्तु'अत इनिठनौ' इत्येवेन्सिद्धः। तथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्तादन्तलक्षणयोः विनीन्योः सामान्यविहितयोः बाधो माभूदिति विशिष्येह तपस्सहस्रशब्दान्तयोः विधानम्। सहस्रशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह अन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते । अण् च ॥ तपस्सहस्राभ्यां मत्वर्थे इति शेषः । ननु तपःसहस्राभ्यां विनीन्यणः इत्येकमेव सूत्रमस्तु । नच तपःसहस्राभ्यां विनीन्योर्यथासङ्ख्यार्थे पृथक्सूत्रकरणम् । अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यम् । तपःसहस्राभ्यामण्विनीनी' इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अणः उभयसम्बन्धस्य विनीन्योर्यथासङ्ख्यत्वस्य च सिद्धेरित्यत आह । योगविभाग उत्तरार्थ इति ।। उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थ । ज्यौत्स्न इति ॥ शुक्लपक्ष इति शेषः । ज्योत्स्ना चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिस्र इति ।। कृष्णपक्ष इति शेषः । तमिस्राः तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः । ज्योत्स्नादित्वादण् । सिकताशर्कराभ्याञ्च ॥ मत्वर्थे अणिति शेषः । सैकतो घट इति ॥ सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वात् घट इति विशेष्यम् । “अप्सुमन:समासिकताचषणाम्बहुत्वञ्च” इति लिङ्गानुशासनसूत्रात् । सिकताशब्दो नित्यम्बहुवचनान्तः । देशे लुबिलचौ च ॥ पूर्वसूत्रविहितस्याणो लुप् इलच्च स्यादित्यर्थः । चादणिति ।। सन्निहितत्वादिति भावः । तर्हि अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेर्मतुप् नैव स्यादित्यत आह । मतुप् चेति ।। समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृते रिति भावः । सिकता इति ॥ सिकताशब्दात् नित्यम्बहुवचनान्तादणो लुपि प्रातिपदिका वयवत्वात् सुपो लुकि युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः । P 111