पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८७९
बालमनोरमा ।

स्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ “ स्वरितो वानुदात्ते पदादौ (सू ३६५९) इति स्वरितबाधनार्थश्चकारः ।

१९०४ । सिध्मादिभ्यश्च । (५-२-९७)

लज्वा स्यात् । सिध्मलः-सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुच्च यार्थं, न तु प्रत्ययविकल्पार्थम्। तेन आकारान्तेभ्य इनिठनौ न । ‘वातदन्तबल ललाटानामूङ् च' (ग सू ११५) । वातूलः ।

१९०५ । वत्सांसाभ्यां कामबले । (५-२-९८)

आभ्यां लज्वा स्याद्यथासङ्ख्यं कामवति बलवति चार्थे। वत्सलः। अंसलः ।

१९०६ । फेनादिलच्च । (५-२-९९)

चाल्लच् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः-फेनलः-फेनवान्।


चूडालोऽसीति ।। तत्र असीत्येतत् ‘तिड्डतिडः' इति निहतम्। चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनानुदात्तस्याद्गुणस्य “एकादेश उदात्तेन' इत्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्तेन सहैकादेशत्वात् ’स्वरितो वाऽनुदात्ते' इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः । सिध्मादिभ्यश्च ॥ लज्वा स्यादिति ॥ मत्वर्थे इति शेषः । अन्यतरस्यामिति ।। पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकम् । किन्तु मतुष्प्रत्ययसमुच्च यार्थकमेव । अन्यतरस्यामित्यस्याव्ययत्वेनानेकार्थकत्वात् । ततश्च 'सिध्मादिभ्यः’ इति लच् मतुप् च स्यादिति लभ्यते । नन्वन्यतरस्यामित्यस्यात्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप् सिद्ध इति वाच्यम् । लजभावे मतुबेव भवति, नतु “अत इनिठनौ' इत्येतदर्थं समुचयविधानात् । तदाह । तेनेति ।। सिध्मादिषु ये अकारान्ताः तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । सिध्म, मणि, विजय, पांसु, हनु, पाणि, इत्यादयः सिध्मादिषु पठिताः । एवञ्च लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु । अतो न तेषु मतुप्समुच्चयः इत्यास्तां तावत् । वातदन्तबलललाटानामूङ् चेति ।। सिध्मादिगणसूत्रमिदम् । एभ्यो लच्प्रकृतेरूङ्चादेशः । डकारस्तु आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूलः, एवं दन्तूलः, बलूलः, ललाटूलः । वत्सांसाभ्यां कामबले ॥ लज्वा स्यादिति ।। मत्वर्थे इति शेषः। कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्य आह । कामवति बलवति चेति ॥ फेनादिलच्च ॥ मत्वर्थे इति शेषः । चाल्लजिति ॥ सन्निहितत्वादिति भावः । नन्वेवं सति मतुप् नैव स्यादित्यत आह । अन्यतरस्याङ्ग्रहणमिति ॥ सिध्मादिसूत्रे व्याख्यातमिदम् ।