सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५२
[नञ्स्नञधिकार
सिद्धान्तकौमुदीसहिता


१७९४ । प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् । (५-१-१२९)

प्राणभृज्जाति आश्वम् । औष्ट्रम् । वयोवचनं कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्टवम् ।

१७९५ । हायनान्तयुवादिभ्योऽण् । (५-१-१३०)

द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् । “श्रोत्रियस्य यलोपश्च (वा ३०९३) । श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञाः युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम्--कौशलमित्यादि ।

१७९६ । इगन्ताच्च लघुपूर्वात् । (५-१-१३१)

शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ्

१७९७ । योपधादुरूपोत्तमाडुञ् । (५-१-१३२)


प्रकृतिभावस्तु न । अभावकर्मणोरिति पर्युदासात् । समासे त्विति ॥अधिको राजा अधिराजः प्रादिसमासः । असे इति पर्युदासाद्यगभावे ब्राह्मणादित्वात ष्यञि आधिराज्यमिति रूपमित्यर्थः । यक् ष्यञोः स्वरे विशेषः। प्राणभृज्जाति ॥ प्राणभृतः-प्राणिनः, तज्जातिवाचिभ्यो वयोविशेषवाचिभ्य उद्गात्रादिभ्यश्च षष्ठ्यन्तेभ्यः भावकर्मणोः अञित्यर्थः । प्राणभृज्जातीति ॥ उदाहरणसूचनम् । एवं वयोवचनेति । हायनान्त ॥ हायनान्तेभ्यः षष्ठ्यन्तेभ्यः भाव-कर्मणोः अण् स्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचनलक्षणस्य अञोऽपवादः । एवं त्रैहायनमपि । यौवनमिति ।। अनिति प्रकृतिभावान्न टिलोपः । श्रोत्रियस्येति ।। वार्तिकमिदम् । श्रोत्रियशब्दात् षष्ठ्यन्तात् भावकर्मणोः अण्, प्रकृतेर्यलोपश्चेत्यर्थः । यति सङ्घातग्रहणम् ।श्रौत्रमिति ।। छन्दोऽधीते इत्यर्थे छन्दश्शब्दात् घप्रत्यये तस्य इयादेशे प्रकृतेर्श्रोत्र इत्यादेशे “यस्येति च' इत्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराकारसङ्घातस्य लोपे रेफादिकारस्य “यस्येति च' इति लोपे श्रौत्रमिति रूपम् । यकारादकारस्य “यस्येति च' इति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण् स्यात् । नच तस्य “यस्येति च' इति लोपः शङ्क्यः । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाभावाच्च, ‘श्रोत्रियस्य यलोपश्च' इत्येके पठन्ति । इगन्ताच्च ॥ लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वञ्च इगवधिकमेव गृह्यते, व्याख्यानात् । तथा च लघुपूर्वो य इक् तदन्तात्प्रातिपदिकात् षष्ठ्यन्ताद्भावकर्मणोरण् स्यादित्यर्थः। गुणवचनेत्यादेरपवादः । कथङ्काव्यमिति ॥ कविशब्दस्य लघुपूर्वेगन्तत्वात् ’गुणवचन’ इति ष्यञम्बाधित्वा अण्प्रसङ्गात् काव्यमिति कथमित्याक्षेपः । समाधत्ते । कविशब्दस्येति ॥ ब्राह्मणादित्वादित्यनन्तरं ष्यञि उपपाद्यमिति शेषः । योपधात् ॥ योपधात् गुरूपोत्तमात्