पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८५१
बालमनोरमा ।

१७९१ । सख्युर्यः । (५-१-१२६)

सख्युर्भावः कर्म वा सख्यम् ’दूतवणिग्भ्यां च’ दूतस्य भावः कर्म वा दूत्यम् ! ‘वणिज्यम्--' इति काशिका । माधवस्तु ’वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव चात्र प्रत्ययो न तु कर्मणि' इत्याह ! भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ।

१७९२ । कपिज्ञात्योर्ढेक् । (५-१-१२७)

कापेयम् ! ज्ञातेयम् ।

१७९३ । पत्यन्तपुरोहितादिभ्यो यक् । (५-१-१२८)

सैनापत्यम् । पौरोहित्यम् । “ राजासे ' (ग सू १०६) । राजन्शब्दो ऽसमासे यकं लभते इत्यर्थः। राज्ञो भावः कर्म वा राज्यम् } समासे तु ब्राह्मणादित्वात्ष्यञ् । आधिराज्यम् ।


“यस्येति च' इत्यकारलोपात् स्तेयमिति सिध्यतीति वाच्यम् । “ अचःपरस्मिन्' इत्यकारलोपस्य स्थानिवत्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्घातग्रहणेऽपि ’अलोऽन्त्यस्य ’ इत्यकारस्यैव लोपः स्यादिति शङ्क्यम् । ’यस्येति च' इत्येव अकारस्यैव लोपसिद्धावेिह नलोपविधिवैयर्थ्यात् , ‘नानर्थकेऽलोऽन्त्यविधिः’ इति निषेधाच्च । योगं विभज्येति ॥ स्तेनादिति पृथक् सूत्रम्। ष्यञित्यनुवर्तते । स्तेनशब्दाद्भावे कर्मणि च ष्यञित्यर्थः । समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञक भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रातिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थे वचनम् । ततो यन्नलोपश्च' इति योगान्तरम् । स्तेनात् इत्यनुवृत्तावुक्तोऽर्थः । केचिदिति ॥ भाष्यदृष्टत्वात् योगविभागोऽयमप्रामाणिकः इति भावः । सख्युर्यः । सखिशब्दात् षष्ठ्यन्तात् भावकर्मणोः यः स्यादित्यर्थः । दूतवणिग्भ्याञ्चेति ॥ वार्तिकमिदम् । आभ्यामपि षष्ठयन्ताभ्याम्भाव कर्मणेः यत्स्यादिति वक्तव्यमित्यर्थ । नास्त्येवेति ॥ वार्तिकत्वे तस्य भाष्ये पाठावश्य कत्वात् पाठस्य चाभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि दूतवणिग्भ्याम्भावकर्मणोः कथं यत्प्रत्यय इत्याशङ्कय नास्त्येव यत्प्रत्ययः, किन्तु ष्यञेवेवत्याह । ब्राह्मणादित्वाद्वाणिज्यमपीति ॥ अपिना दौत्यसङ्ग्रहः। कपिज्ञात्योर्ढक् ॥ पञ्चम्यर्थे षष्ठी । आभ्यां षष्ठ्यन्ताभ्याम्भावकर्मणोः ढगित्यर्थः । अत्र कपिज्ञात्योः भावकर्मणोश्च न यथासङ्ख्यम् , व्याख्यानात् । पत्यन्त ॥ पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठ्यन्तेभ्यो भावकर्मणोर्यक् स्यादित्यर्थः । राजासे इति ॥ पुरोहितादिगणसूत्रमिदम् । राजा असे इति च्छेदः । स इति समासस्य प्राचां संज्ञा । तदाह । राजन्शब्द इति ॥ राज्यमिति ॥ यकि टिलोपः । “ये चाभावकर्मणोः' इति