सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८५३
बालमनोरमा ।

प्रकरणम्] रामणीयकम् । आभिधानीयकम् । ’सहायाद्वा' (वा ३०९४) । साहायम्-साहायकम् ।

१७९८ ॥ द्वन्द्वमनोज्ञादिभ्यश्च । (५-१-१३३)

शैष्योपाध्यायिका । मानोज्ञकम् ।

१७९९ । गोत्रचरणाच्छलाघात्याकारतदवेतेषु । (५-१-१३४)

अत्याकारोऽधिक्षेपः । तदवेत: ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थते इत्यर्थः । गार्गिकया अत्याकुरुते । गार्गिकामवेतः ।

१८०० । होत्राभ्यश्छः । (५-१-१३५)

होत्राशब्दो ऋत्विग्वाची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकीयम् । मैत्रावरुणीयम् ॥

१८०१ । ब्रह्मणस्त्वः । (५-१-१३६)


प्रातिपदिकात् षष्ठ्यन्ताद्भावकर्मणोर्वुञित्यर्थः । रामणीयकमिति । रमणीयशब्दाद्रुञ् । आभिधानीयकमिति । अभिधानीयशब्दाद्रुञ् । सहायाद्वेति । बुञिति शेषः । पक्षे ब्राह्मणादित्वात् ष्यञ् । इदन्तु वार्तिकं भाष्ये क्वचिन्मृग्यम्। द्वन्द्वमनोज्ञादिभ्यश्च ॥ द्वन्द्वात् मनोज्ञादिभ्यश्च षष्ठ्यन्तेभ्यः वुञित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वादुञ् । स्त्रीत्वं लोकात् । यद्यपि “योपधात्' इत्येवं सिध्यति । तथापि गोपालपशुपालिकेत्युदाहरणं बोध्यम् । गोत्रचरणात् ॥ गोत्रप्रत्ययान्तान् शाखाध्येतृवाचिनश्च षष्ठ्यन्ताद्भावकर्मणोर्वुञ् स्यात् श्लाघादिषु विषयेष्वित्यर्थः । अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धङ्गोत्रमित्युक्तम् । अत्याकार इत्यस्य विवरणम् । अधिक्षेप इति । तदवेत इत्येतद्विवृणोति । ते गोत्रेति ॥ तच्छब्देन गोत्रचरणयोः भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थात् ज्ञानार्थाद्वा कर्तरि क्तः । ते अवेतस्ततदवेत इति विग्रहः । 'द्वितीया' इति योगविभागातू समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गार्ग्यशब्दाद्रुञि “आपत्यस्य’ इति यलोपे ‘यस्येति च' इत्यकारलोपे लोकात् स्त्रीत्वे टापि “प्रत्ययस्थात्' इति इत्त्वे गार्गिकाशब्दः । काठिकया श्लाघते इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययार्थान्वयिनः नतु प्रत्ययवाच्या इति बोध्यम् । होत्राभ्यश्छः ॥ ऋत्विग्वाचीति ॥ याज्ञिकप्रसिद्धेरिति भावः । ऋत्विग्विशेषवाचिभ्यः षष्ठ्यन्तेभ्यः छः स्याद्भावकर्मणोः। अच्छावाकीय मिति ॥ “आ च त्वात्' इति त्वतलोरपि सर्वत्र समावेशो बोध्यः । ब्राह्मणस्त्वः ॥ होत्राभ्यः