पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४४
[ठञ्विधि
सिद्धान्तकौमुदीसहिता

१७६९ । ऋतोरण् । (५-१-१०५)

ऋतुः प्राप्तोऽस्य आर्तवम् । [ उपवस्त्रादिभ्य उपसङ्ख्यानम्' । उप वस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ।]

१७७० । कालाद्यत् । (५-१-१०७)

कालः प्राप्तोऽस्य काल्यं शीतम्

१७७१ । प्रकृष्टे ठञ् । (५-१-१०८)

’कालात्' इत्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ।

१७७२ । प्रयोजनम् । (५-१-१०९)

’तदस्य' इत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ।

१७७३ । विशाखाषाढादण्मन्थदण्डयोः । (५-१-११०)

आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्ढः । “चूडादिभ्य उपसङ्ख्यानम्' । चूडा - चौडम् । श्रद्धा - श्राद्धम् ।


ऋतोरण् ॥ प्राप्तमित्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्तात् ऋतोरणित्यर्थः । आर्तवमिति ॥ अणि ओर्गुणः, आदिवृद्धिः, रपरत्वम् । कालाद्यत् ॥ तदस्य प्राप्तमित्येव । प्रथमान्तात्कालशब्दात् अस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाल काल्यशब्दस्तु कल्यवदव्युत्पन्नम्प्रातिपदिकम् । कल्यमेव काल्यं वा । प्रकृष्टे ठञ् ।। अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दात् ठञित्यर्थ । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं दीर्घ इति । प्रयोजनम् ॥ तदस्येत्येवेति ।। अस्य प्रयोजनमित्यर्थे प्रथमान्ताट्ठञित्यर्थः । इन्द्रमह इति ॥ इन्द्रात्सव इत्यर्थः । “मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणञ्चेति ।। प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची प्रयुज्यते । प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः । विशाखाषाढात् ॥ विशाखाशब्दात् आषाढशब्दाच्च प्रथमान्तात् अस्य प्रयोजनमित्यर्थे अण् स्यात् । समुदायेन मन्थे दण्डे च क्रमात् गम्ये सतीत्यर्थः । तदाह । आभ्यामिति ॥ स्थूणामेकान्निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयोः रज्वोर्मन्थनदण्डम् ऊर्ध्वमासज्यते । न रज्वा भ्रामितेन दधि विलोड्यते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्य दण्डो दण्ड उच्यते । अनयोः वैशाखशब्दः आषाढशब्दश्च रूढौ तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रथमान्तेभ्यः अस्य प्रयोजनमित्यर्थे अणित्यर्थः ।