पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८४३
बालमनोरमा ।


१७६२ । तेन यथाकथाचहस्ताभ्यां णयतौ । (५-१-९८)

यथाकथाचेत्यव्ययसङ्घातानत्तृतीयान्ताद्धस्तशब्दाच्च यथासङ्ख्यं णयतौ स्तः । “ अर्थाभ्यां तु यथासङ्ख्यं नेष्यते' यथाकथाच दीयते कार्यं वा याथा कथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ।

१७६३ । सम्पादिनि । (५-१-९९)

तेन' इत्येव । कर्णवेष्टकाभ्यां सम्पादि कार्णवेष्टकिक मुखम् । कर्णालङ्काराभ्यामवश्यं शोभते इत्यर्थः ।

१७६४ । कर्मवेषाद्यत् । (५-१-१००)

कर्मणा सम्पादि कर्मण्यं शौर्यम् । वेषेण सम्पादि वेष्यो नटः । वेष : कृत्रिम आकारः ।

१७६५ । तस्मै प्रभवति सन्तापादिभ्यः । (५-१-१०१)

सन्तापाय प्रभवति सान्तापिकः । साङ्ग्रामिकः ।

१७६६ । योगाद्यच्च । (५-१-१०२)

चाट्ठञ् । योगाय प्रभवति योग्यः—यौगिकः ।

१७६७ । कर्मण उकञ् । ५-१-१०३)

कर्मणे प्रभवति कार्मुकम्

१७६८ । समयस्तदस्य प्राप्तम् । (५-१-१०४)

समयः प्राप्तोऽस्य सामयिकम् । वैयुष्टमिति ।। अणि “न य्वाभ्याम्' इत्यैच् । तेन यथा ॥ अर्थाभ्यामिति ॥ प्रकृत्योः प्रत्यययोश्च यथासङ्ख्यम्, नतु दीयते कार्यमित्यर्थयोरित्यर्थः । व्याख्यानादिति भावः । सम्पादिनि ॥ तेनेत्येवेति ॥ सम्पादः सम्पत्तिः शोभा अस्यास्तीति सम्पादी । तस्मिन्नर्थे तृतीयान्ताद्वगित्यर्थः । कर्मवेषाद्यत् ॥ तृतीयान्तात्कर्मन्शब्दात् वेषशब्दाच्च सम्पादिन्यर्थे यत्स्यादित्यर्थः । तस्मै प्रभवति ॥ चतुर्थ्यन्तेभ्यः सन्तापादिभ्यः प्रभवतीत्यर्थे ठञ् स्यादित्यर्थः । सन्तापाय प्रभवतीति ॥ शत्रूणाम्पीडायै शक्नोतीत्यर्थः । योगाद्यच्च ॥ चतुर्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कर्मण उकञ् ॥ चतुर्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कार्मुकमिति ॥ उकञि टिलोपः । समयस्तदस्य ॥ तदिति प्राप्तमिति च सामान्ये नपुंसकम् । समयः प्राप्तोऽस्येत्यर्थे प्रथमान्तात्समयशब्दात् ठञित्यर्थः । तदित्युत्तरार्थम् ।