सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८४५
बालमनोरमा ।

१७७४ । अनुप्रवचनादिभ्यश्छः । (५-१-१११)

अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ।

१७७५ । समापनात्सपूर्वपदात् । (५-१-११२)

व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयः ।

१७७६ । ऐकागारिकट् चौरे । (५-१-११३)

एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चौरः ।

१७७७ । आकालिकडाद्यन्तवचने । (५-१-११४)

समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याकाल आदेशः । आशु विनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा । “आकालाट्ठंश्च' (वा ३०७८) । आकालिका विद्युत् । इति तद्धिते प्रग्वतीयस्य ठञः पूर्णोऽवधिः ।


चौडमिति ॥ चूडा प्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौळमित्यपि । श्रद्धा, श्राद्धमिति ॥ श्रद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्राद्धहेतुकमिति यावत् । अनुप्रवचनादिभ्यश्छः ॥ प्रथमान्तादनुप्रवचन शब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनुप्रवचनं नाम उपनयनाङ्गं किञ्चित्कर्म आश्वलायनसूत्रे प्रसिद्धम् । समापनात्सपूर्वपदात् ॥ सपूर्वपदात्समापनशब्दात् अस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति ॥ मङ्गळाचार इति शेषः । ऐकागरिकट् चौरे ॥ एकमगारं प्रयोजनं प्रयोजकमस्य चोरस्येति विग्रहे एकागार शब्दादिकट्प्रत्यये ऐकागारिकट् इति निपात्यते । टित्त्वं ङीबर्थे प्रयोजनमित्येव सिद्धे चोर एवेति नियमार्थम् सूत्रम् । एकमित्यस्य विवरणम् । असहायमिति “एकं मुख्यान्यकेवला.” इत्यमरः । मुमुषिषोरिति ॥ चौर्यङ्कर्तुमिच्छोरित्यर्थः । चोरस्य हि असहायमगारमिष्ट गेहान्तरसत्त्वे चौर्यप्रकटनप्रसङ्गादिति भावः । चोरे किम् । एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु “एकागाराच्चोरे' इत्येव सुवचम् । प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम् । आकालिकट् ॥ समानकालाविति बहुव्रीहिः । आद्यन्ताविति ॥ उत्पत्तिविनाशावित्यर्थः । समानकालस्येति ॥ समानकालशब्दस्य इकप्रत्यये परं आकालादेशो निपात्यते इत्यर्थः । ननु उत्पत्ति विनाशयोरेककालिकत्वमसम्भवपराहतमित्यत आह । आशु विनाशीति ॥ लक्षणां विनैव आह । पूर्वदिने इति ॥आकालाट्ठंश्चेति ॥ आकालशब्दादाद्यन्तवचनाद्वन्प्रत्ययश्च वक्तव्य इत्यर्थः । चात् ठञ् । आकालिका विद्युदिति ॥ ठनि टाप् । ठणि तु ङीप् । आकालिकी । अर्थः प्राग्वत् ॥ इति तद्धिते प्राग्वतीयस्य ठञः पूर्णोऽवधिः ।