पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५२
[द्विरुक्त
सिद्धान्तकौमुदीसहिता

अन्योन्यम् । परस्पराम्-परस्परम् । इतरेतराम्-इतरतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः अत्र केचित् । आमादेशो द्वितीयाया एव भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चादड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकाम्रयम् ।।


वा इमे ब्राह्मण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, इतरेतरां इतरेतरं वा इमे ब्राह्मण्यौ कुले वा भोजयतः इत्यन्वयः । तत्र अन्यामित्यस्य द्वित्वे दळद्वये टाबभाव इति वक्ष्यमाणतया पुंवत्त्वात् टापो निवृत्तौ समासत्वाभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे ‘अतो रोरप्लुतात्’ इत्युत्वे आद्गुणे उत्तरपदस्थविभक्त्तेरनेन आम्भावे अन्यो ऽन्यामिति रूपम् । आम्भावविरहे तु पुंवत्त्वाष्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुलिङ्गवदेव अन्योऽन्यमिति रूपम् । इयं ब्राह्मणी, अन्यां ब्राह्मणीं भेजयति । अन्या त्विमामित्येवं विनिमयेन ब्राह्मण्यौ भोजयत इत्यर्थ । इदं कुलङ्कर्तृ अन्यत्कुल भोजयति, अन्यत्कुलङ्कर्तृ इद कुलं इत्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्रान्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेः आम्भावे अन्योऽन्यामिति रूपम् । आम्भावविरहे तु 'क्लीबे चाद्ड्विरहः स्वमोः’ इति वक्ष्यमाणतया पुंवत्त्वात् अद्डादेशाभावे अन्योऽन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दळद्वयेऽपि पुंवत्त्वात् टापो। निवृत्तौ पूर्वोत्तरपदस्थविभक्तयोः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आम्भावविरहे तु द्वित्वे पुंवत्वाष्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्व पूर्वपदस्थविभत्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्परामिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परम् इति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाष्टापो निवृत्तौ उत्तरपदस्थविभक्त्तेराम्भावे समासवत्त्वात् पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्दस्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम्। अत्र भाष्यादौ द्वितीयाविभक्तयन्तस्थोदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह । अत्र केचिदिति ।। द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः । पुंवदेवेति ।। आम्भावविरहे सति बहुळग्रहणात् पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात् प्रथमैकवचनस्य इद पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह । अन्ये त्विति ॥ दिङ्मात्रत्वादिति ॥ दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । अथात्र बहुळग्रहणानुवृत्तेः प्रयोजनसिद्धान्तप्राचीनश्लोकमाह । दलद्वये इति ॥ स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्डयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः । यद्यपि इतरेतरमित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धः, तथाप्युत्तरखण्डे टावभावार्थम्बाहुळकाश्रयणमिति भावः। क्लीबे