पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९५१
बालमनोरमा ।

द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुच्चित्य द्योतकतां लब्धुं वा । कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये । समासवच्च बहुलम्' (वा ४७००) । बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् । “ असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्य:’ (वा ४७००) । अन्योऽन्यं विप्रा नमन्ति । अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । “ अन्योऽन्येषां पुष्करैरामृशन्त:’ इति भाघ । एव परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य स । इतरेतरम् । इतरेतरेणेत्यादि । “ स्त्रीनपुंसक योरुत्तरपदस्थाया विभक्तराम्भावो वा वक्तव्यः (वा ४७०१)। अन्योन्याम्


द्विर्वचनार्थं इदं वार्तिकमित्यर्थः । नन्वस्य भृशार्थ एव द्विर्वचनफलकत्वे “भृशे च' इत्येव सिद्धे क्रियासमभिहारे’ इति व्यर्थमित्यत आह। पौनःपुन्येऽपीति ॥ लुनीहि लुनीहीत्यत्र पौनःपुन्ये लेोटो द्विर्वचनस्य च समुच्चयार्थमिनि यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थ । एवञ्च “धातोरेकाचः’ इति पौनःपुन्ये यङन्ते पापच्यते इत्यादौ द्विर्वचनमित्यन्यत्र विस्तरः । कर्मव्यतिहारे इति ॥ क्रियाविनिमयः कर्मव्यतिहारः, तस्मिन् गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्ते पदे बहुळं समासवदित्यर्थः । अत्र बहुळम्' इति समासवदित्यत्रैवान्वेति । द्विर्वचनन्तु नित्यमेव । अन्यपरयोरिति ॥ अन्यशब्दपरशब्दयोरेव बहुळं समासवत्त्वम् । इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहितमेव इतरशब्दस्य तत्सहितमेवोदाहरण भाष्ये दृश्यते । तथा “परस्परोपपदाच्च' इति वार्तिकप्रयोगात् परशब्दस्यापि समासवत्त्वाभावो गम्यते इति भावः । एवञ्च क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यं द्विर्वचनम्। द्विरुक्तयोस्तु समासवत्त्वं बहुळम् । इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वम् । बहुळग्रहणादिति स्थितिः । असमासवद्भावे इति ।। इदमन्यपरशब्दयोरेव । इतरशब्दस्य समासवत्त्वयैवोक्तत्वात् । सुपस्सुरिति ॥ सुबिति प्रत्याहारः । सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्रविषयमिति केचित् । तदेतद्भाष्यविरुद्धम् । भाष्ये द्वितीयादिविभक्तेरुदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति । अन्योऽन्यं विप्राः नमन्तीत्यादि ।। इह अन्यम् अन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सु । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतत् न कविसम्मतमित्याह । अन्योऽन्येषामित्यादि माधः इत्यन्तम् ॥ परस्परमित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्कय आह । कस्कादित्वादित्यादि । इतरेतरमिति ॥ इतरः इतरावित्यादीनां द्वित्वे समासवत्वात् सुपोर्लुकि समुदायात् पुनः सुबुत्पत्तिरिति भावः । स्रीनपुंसकयोरिति ॥ स्त्रीनपुंसकयोर्विद्यमानानाम् अन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्त्तेः आम् इत्यादेशो बहुळं वक्तव्यमित्यर्थः । अन्योऽन्यामित्यादि ।। अन्योऽन्यां, अन्योऽन्यं