पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९५३
बालमनोरमा ।

तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्त । न च “सर्वनाम्रो वृत्तिमात्रे –’ (वा) इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विर्वचनमेव वृत्ति । “यां यां श्रियः प्रैक्षत कातरराक्षी सा सा' इत्यादावति प्रसङ्गात् । “अन्योऽन्यमितरेतरम्’ इत्यत्र च “अद्डुतरादिभ्यः-' (सू ३१५) इत्यद्ड् प्राप्तः । 'अन्योऽन्यसंसक्तमहस्रियामम्’ “अन्योऽन्याश्रयः,’ “पर स्पराक्षिसादृश्यम्’ “अपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः । सर्व बाहुलक बलेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणम् 'स्त्रियाम्' (सू ४५३) इति सूत्रे “अन्योऽन्यसंश्रयं त्वेतद्’ इति भाष्यं चात्र प्रमाणमिति ।


इति ॥ अन्योऽन्यमित्यादौ अद्डादेशविरहे इत्यर्थ । समासे सोरिति ॥ कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति ।। यथेद स्पष्टम्भवति तथा उदाहृत्य प्रदर्श्यते इत्यर्थः । ननु पूर्वदळे ‘सर्वनाम्नो वृत्तिमात्रे’ इति पुंवत्त्वेनैव टाब्निवृत्तेः सिद्धत्वात् तद्विषये बहुळग्रहणं नादर्तव्यमित्याशङ्कय निराकरोति । न चेति ॥ ‘सर्वनाम्नो वृत्तिमात्रे’ इति पुंवत्त्वस्यात्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह । अन्यपरयोरिति ।। ‘समासववच्च बहुळम्’ इति समासवत्त्वम् इतरशब्दमात्राविषयं , न त्वन्यपरशब्दविषयमिति प्रागुक्तमित्यर्थः । ननु मास्तु समासवत्व, तथापि “सर्वनाम्नो वृत्तिमात्रे' इति पुवत्त्वं दुर्वारम् । द्विर्वचनस्य वृत्तित्वादित्याशङ्कय निराकरोति । न च द्विर्वचनमेव वृत्तिरिति।। “कृत्तद्धितसमासैकशेषसनाद्यन्ता धातुरूपाः पञ्च वृत्तयः’ इति परिगणनादिति भावः । द्विर्वचनस्य वृत्त्यन्तर्भावे बाधकमाह । यांयामिति ॥ द्विर्वचनस्य वृत्त्यन्तर्भावे “यांयां प्रियः प्रेक्षत कातराक्षी सासा ह्रिया नम्रमुखी बभूव" इत्यत्र श्लोके यांयामित्यत्र सासेत्यत्र च 'सर्वनाम्नो वृत्तिमात्रे' इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीबे चादड्विरहः इत्यस्योदाहरति । अन्योऽन्यमिति ॥ ननु समासे सोरलुक् चेति कथम् । अन्यपरशब्दयोः समासवत्त्वाभावादित्याशङ्कय कृतद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति। अन्योऽन्यसंसक्तमिति॥ अन्योऽन्येन संसक्तमिति तृतीयासमासः। अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्च रात्रिश्च अन्योऽन्येन संयुक्तमित्यर्थः । अन्योऽन्याश्रय इति ॥ अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति ॥ अक्ष्णा सादृश्यमक्षिसादृश्यम् । परस्परस्याक्षिसादृश्यमिति विग्रहः । अपरस्परैरिति ॥ न परस्परे अपरस्परे तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुंक् प्राप्तः इत्यर्थः । सुभावविधानन्तु अन्योऽन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुळग्रहणादेतत् समाधेयमित्यत्र किं प्रमाणमित्यत आह । प्रकृतवार्तिकेति ॥ स्त्रीनपुंसकयोरिति प्रकृतवार्तिके अन्योऽन्यमिमे ब्राह्मण्याविति, इतरेतरमिमे कुले इति चोदाहरणात् “दळद्वये टाबभावः क्लीबे चादड्विरहः स्वमोः" इति विज्ञायते । 'स्त्रियाम्' इति सूत्रे अन्योऽन्यसंश्रयं त्वेतदिति भाष्यप्रयोगात् P 120