पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४७
बालमनोरमा ।

तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सा याम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।

२१४१ । परेर्वर्जने । (८-१-५)

परि परि वङ्गेभ्यो वृष्टो देव । वङ्गान्परिहृत्येत्यर्थः । “ परेर्वर्जनेन वावचनम्' । (वा ४६८३) । परि वङ्गेभ्यः ।

२१४२ । उपर्यध्यधसः सामीप्ये । (८-१-७)

उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ।

२१४३ । वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु । (८-१-८)

असूयायाम् । सुन्दर सुन्दर वृथा ते सौन्दर्यम् । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः, भर्त्सने चोर चोर घातयिष्यामि त्वाम् ।


अव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विर्वचनं नान्यत्रेत्यर्थ । तथैवोदाहरति । पचति पचति । भुक्त्वा भुक्त्वेति ॥ वीप्सायामिति । उदाह्रियते इति शेषः । वृक्षवृक्षमिति ।। कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकार्त्स्न्ये गम्यते । जगतीतलस्थितकृत्स्नस्य वृक्षसेचनस्य अशक्तत्वात् सर्वशब्दस्य कार्त्स्न्यवाचित्वेऽपि न द्वित्वमित्यनुपदमेव यथास्वे इत्यत्र वक्ष्यते । वृक्षे वृक्षमित्यत्र कार्त्स्न्यावगमेऽपि प्रत्येकनिष्ठमेकत्वमेव भासते नतु बहुत्वम् । अतो न द्विबहुवचनम् । एकैकस्य प्राचामिति लिङ्गाञ्च । सर्वस्येत्यभावे वृक्षाभ्यामित्यादौ 'स्वादिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तु सर्बग्रहणे पदावयवत्वानाक्रान्तस्यैव कृत्स्नाबयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । पदस्येति किम् । वाक्यस्य मा भूत् । परेर्वर्जने ॥ वर्जने वर्तमानस्य परीत्यस्य द्वे स्तः इत्यर्थः । परि परि वङ्गेभ्यो वृष्ट इति ॥ पर्जन्य इति शेषः । ‘अपपरी वर्जने' इति परिः कर्मप्रवचनीय । “पञ्चम्यपाङ्परिभिः’ इति पञ्चमी । परिहरेः संसारः इत्यत्र तु “परेरसमासे इति वक्तव्यमिति वार्तिकात् न द्विर्वचनम् । उपर्यध्यधसः ॥ उपरि, अधि, अधः, एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः । सामीप्यञ्च उपर्युपरि प्राम इत्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तु कालत इति ज्ञेयम् । वाक्यादेः।। द्वे स्त इति शेषः । यद्यपि कोपाद्भर्त्सनम्, असूयया कुत्सनं, तथापि विनापि कोपासूये भर्त्सनकुत्सनयोः शिष्यादौ सम्भवात्पृथक् ग्रहणम् इति भाष्ये स्पष्टम् । सुन्दरेति ॥ सौन्दर्यमसहमानस्येदं वाक्यम् ।