पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीरस्तु ॥

॥ अथ द्विरुक्तप्रकरणम् ॥

२१३९ । सर्वस्य द्वे । (८-१-१)

इत्यधिकृत्य ।

२१४० । नित्यवीप्सयोः । (८-१-४)

आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं


अथ द्विरुक्तप्रकरणम्--सर्वस्य द्वे ॥ इत्यधिकृत्येति ॥द्विर्वचनविधयोऽनु क्रमिष्यन्ते इति शेषः । नित्यवीप्सयोः ॥ नित्यशब्देन नित्यत्वं विवक्षितम् । तच्च आभीक्ष्ण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा । व्याप्तिप्रतिपादनेच्छा, सा च प्रयोक्तृधर्मः ।व्याप्तिरेव तु शाब्दबोधविषयः इति भाष्यस्वरसः । तथा च नित्यव्याप्त्योरित्येव सुवचम् । व्याप्तिश्च कार्त्स्न्येन सम्बन्धः । उपसर्गबलात् पदस्येत्यधिकरिष्यमाणमिहापकृष्यते । सर्वस्येति स्थानषष्ठी। द्वे इति त्वादेशसमर्पकम् । तस्य च शब्दरूपे इति विशेष्यमर्थाल्लभ्यते । शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतः अर्थतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कार्त्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्यार्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवतः इति फलितम् । तदभिप्रेत्य आह । आभीक्ष्ण्ये वीप्सायाञ्च द्योत्ये इति ॥ द्योत्यञ्च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः । ‘नपुंसकमनपुंसकेनैकवञ्चास्यान्यतरस्याम्' इति नपुंसकैकशेषः । एकत्वं च नित्यवीप्से व प्रकृतिगम्ये । द्विर्वचनन्तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति ॥ द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्वात् सुबन्तत्वम् । तेन अपचन्नपचन्नित्यत्र डमुट् वृक्षान्वृक्षानित्यत्र 'पदान्तस्य' इति णत्वनिषेधः अग्रेऽग्रे इत्यत्र ‘एडः पदान्तात्’ इति पूर्वरूपश्चत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति । पुनःपुनरिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वात् भावे ष्यञि भावे ठञि च पौनःपुन्यम्, पौनःपुनिक इति च सिध्यति । द्वे उचारणे स्त इत्याश्रयणे तु सर्वम्पदं द्विरुचारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुचार्यमाणस्य पुनःपुनरित्यादेशत्वाभावेन स्थानिवत्त्वाप्रसक्तया सुबन्तत्वविरहात् तद्धितोत्पत्तिर्न स्यात् । तस्मादादेशपक्षे एव श्रेयानित्यास्तां तावत् । आभीक्ष्ण्यन्तिङन्तेष्विति ॥ आभीक्ष्ण्यं पौनःपुन्यम् । तच्चेह प्रधानभूतक्रिया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीति 'प्रशंसायां रूपप्' इति सूत्रे भाष्ये स्पष्टम् । अव्यय कृत्स्वपि क्तातुमुन्नादिषु क्रियाप्राधान्यम् । “अव्ययकृतो भावे' इत्युक्त्तेः । तथा च तिङन्तेषु