पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४८
[द्विरुक्त
सिद्धान्तकौमुदीसहिता

२१४४ । एकं बहुव्रीहिवत् । (८-१-९)

द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । ‘न बहुव्रीहौ' (सू २२२) इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्या


देवेति || तव वन्दनं सम्मतमित्यर्थः| दुर्विनीतेति || क्रोधाविष्टस्य वाक्यम् । ज्ञास्यसीति ॥ दुर्विनयस्य फलमिति शेषः । धानुष्केति ॥ युद्धाऽसमर्थं प्रति निन्देयम् । चोरेति ॥ चोरं प्रति अवाच्यवादोऽयम् । एकं बहुव्रीहेिवत् ॥ द्विरुक्त इति।। द्विर्वचनं प्राप्त इत्यर्थ । एतच्च प्रकरणाल्लभ्यते । “वीप्सामात्रविषयमिदम्” इति भाष्याच्च । तेनेति ॥ बहुव्रीहिवत्वेन सुब्लोपपुंवद्भग्वौ सिध्यत इत्यर्थः । तत्र सुब्लोपमुदाहरति । एकैकमिति ॥ इहेति ।। एकैकमित्यत्र एकमित्यस्य द्विर्वचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात् सुबित्यन्वयः । ननु 'यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्रवति तर्हि समासस्यैव' इति नियमेन समुदायस्य प्रातिपदिकत्वाभावात् कथमिह सुपो लुक्, कथं वा समुदायात् सुबित्यत आह । बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति ।। एतच्च सुपोर्लुकीत्यत्र समुदायात्सुबित्यत्र च मध्यमणिन्यायेनान्वेति । अथ पुंवत्वेऽप्युदाहरति । एकैकया आहुत्येति ॥ एकयेत्यस्य द्विर्वचने सति एकया एकयेति स्थिते, बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोर्लुकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्तौ, एकैकयेति रूपम्। बहुव्रीहिवत्वाभावे तु इह समुदायस्य प्रातिपदिकत्वाभावात् सुपोर्लुक् पूर्वखण्डस्य पुवत्त्वञ्च न स्यात् । उत्तरपदपरकत्वाभावात् । समासचरमात्रयस्यैव उत्तरपदत्वादिति भाव एकैकामित्यत्र उत्तरखण्डस्य “सर्वनाम्रो वृत्तिमात्रे’ इति पुंवत्त्वमपि बहुव्रीहिवत्त्वाभावे सति न प्रवृत्तिमर्हति । पूर्वस्यैवेदं “भस्त्रैषाद्वा' इति लिङ्गादित्युक्तत्वादिति बोध्यम् । ननु सुपोर्लुकेि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्द्यत्येवेत्यत आह । इह पूर्वभागे इति ॥ अवग्रहे इति ॥ समस्तपदस्य द्विधा करणे पूर्वखण्डः अवग्रहः । “तस्य पूर्वोऽवग्रहः” इति प्रातिशाख्यम् । एकैकयेत्येक एकया इतीष्यते पूर्वखण्डस्य पुंवत्त्वम् । बहुव्रीहिवत्त्वाभावे तु एकैकयेत्येका एकयेति स्यादिति भाव तैत्तिरीयास्तु एकेकयेत्येकया एकया इत्येवावगृह्णन्ति। एकं समासवदित्येव सिद्धे बहुव्रीहिग्रहणं बहुव्रीहौ प्रकृत्या पूर्वपदमिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहुव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्मै देहीत्यादौ कथं सर्वनामकार्यमित्यत आह । न बहुव्रीहावित्यत्रेति ॥ 'विभाषा दिक्समासे बहुव्रीहौ' इत्यतो बहुवीहिग्रहणानुवृत्त्यैव सिद्धे “न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणम्मुख्यबहुव्रीहिलाभार्थम् । अतः बहुव्रीहिवदित्यतिदिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह । तेनेति ।। तदेवं प्राचीनोक्तं परिहारमुक्ता सिद्धान्तिमतेनाह । वस्तुतस्त्विति । एतदिति ।। 'न