पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९३३
बालमनोरमा ।

२०९३ । पादार्धाभ्यां च । (५-४-२५)

पादार्थमुदकं पाद्यम् । अर्घ्यम् । नवस्य 'नू' आदेशो त्नप्तनप्खाश्च प्रत्यया वक्तव्याः । नूत्नम्-नूतनम्-नवीनम् । 'नश्च पुराणे प्रात्’ (वा ३३२८) । पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः । चात्पूर्वोक्ताः । प्रणम्-प्रत्नम्-प्रतनम्-प्रीणम् । 'भागरूपनामभ्यो धेयः' (वा ३३३०) । भागधेयम् । रूपधेयम् । नामधेयम् । 'आग्निध्रसाधारणादञ्' (वा ३३३४) । आग्निध्रम् । साधारणम्। स्त्रियां ङीप् । आग्नीध्री । साधारणी ।

२०९४ । अतिथेर्ञ्यः । (५-४-२६)

'तादर्थ्ये' इत्येव । अतिथये इदमातिथ्यम् ।

२०९५ । देवात्तल् । (५-४-२७)

देव एव देवता ।

१०९६ । अवेः कः । (५-४-२८)

अविरेवाविकः ।


रक्षोदेवत्यमित्यादौ नाव्याप्ति । तदाह । पितृदेवत्यमिति ।। देवताशब्दस्य देवाः मनुष्याः पितरः असुरा रक्षांसि पिशाचाः इत्यादि श्रुतिपुराणादिसिद्धजातिविशेषपरत्वे तु अत्राव्याप्तिः स्यादिति भावः । भाष्ये तु पितृदेवत्यमिति न सिद्ध्यतीत्याक्षिप्य दिवेरैश्वर्यकर्मणो देवः । तस्मात्स्वार्थे तलिति समाहितम् । हविः प्रति पित्रादीनामीश्वरत्वं स्वामित्वम् । हविस्तु यजमानस्य स्वम् । तच्च यजमाने अग्न्याद्युद्देशेन त्यक्तञ्चेद्देवाग्न्यादिस्वामिकं भवितुमर्हति । अतः देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविशेषात्मकमेव भाष्यरीत्यापि पर्यवस्यतीत्यलम् । पादार्घाभ्याञ्च ॥ तादर्थ्ये यदिति शेषः । अर्घ्यमिति ॥ अर्घार्थमुदकमिति विग्रहः। अर्घः पूजा । 'मूल्ये पूजाविधावर्घः' इत्यमरः । नवस्येति ॥ वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति ॥ नवशब्दात् खप्रत्यये, तस्य ईनादेशे, प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति ॥ वार्तिकमिदम् । चवात्पूर्वोक्ता इति ॥ त्नप्, तनप्, ख, इत्यर्थः । प्रीणामिति ॥ खे रूपम् । भागरूपेति ॥ वार्तिकमिदम् । आग्नीध्रेति । वार्तिकमिदम् । आग्नीध्रमिति ॥ आग्नीध्रः शरणम् आग्नीध्रम् । ततः स्वार्थे अञि आग्नीध्रमेव । अनेक प्रत्ययविशिष्टं सम्बन्धसाधारणमुच्यते । ततः स्वार्थे अञि साधारणमित्येव । अञ्विधेः प्रयोजनमाह । स्त्रियां ङीबिति ॥ अतिथेर्ञ्यः ॥ तादर्थ्ये इत्येवेति ॥ अतिथये इदमित्यर्थे अतिथिशब्दाचतुर्थ्यन्तात् ण्यः स्यादित्यर्थः । देवात्तल् ॥ तादर्थ्ये इति निवृत्तम् । अत्यन्तस्वार्थिकोऽयं तल् । देवतेति >। स्वार्थिकत्वेन प्रकृतिलिङ्गातिक्रमात् स्त्रीत्वम् । अवेः कः ॥ अयमपि केवलस्वार्थिकः । “अवयः