पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३२
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

२०९० । समूहवच्च बहुषु । (५-४-२२)

सामूहिकाः प्रत्ययाः अतिदिश्यन्ते, चान्मयट् । मोदकाः प्रकृताः, मौदकिकम्-मोदकमयम् । शाष्कुलिकम्-शष्कुलीमयम् । द्वितीयेऽर्थे मौदकिको यज्ञः-मोदकमयः ।

२०९१ । अनन्तावसथेतिहभेषजाञ्ञ्यः । (५-४-२३)

अनन्त एव आनन्त्यम् । आवसथः एव आवसथ्यम् । 'इतिह' इति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ।

२०९२ । देवतान्तात्तादर्थ्ये यत् । (५-४-२४)

तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् ।


प्रचुरमन्नमित्यर्थः । स्वार्थिकत्वात्प्रकृतिलिङ्गता । अपूपमयमिति ॥ प्रचुरोऽपूप इत्यर्थः । यवागूमयीति।। प्रचुरा यवागूरित्यर्थः । टित्वात् डीबिति भावः । द्वितीये इति ॥ अधिकरणल्युट्पक्षे इत्यर्थः । अन्नमयो यज्ञ इति ॥ इष्टिषु 'दशौदनाः पशौ तं सोमसहस्रम्' इत्यादि वाक्यैरुच्यमानानि प्राचुर्यविशिष्टान्नानीत्यर्थः । स्वार्थिकत्वेन प्रकृतिलिङ्गत्वाभावाद्विशेष्यनिघ्नता । अपूपमयं पर्वेति ॥ पर्वणि अपूपाः कार्या इत्याद्युच्यमानापूपाधिकरणं पर्वेत्यर्थः । अस्वार्थिकत्वाद्विशेष्यनिघ्नता । केचित्तु द्वितीयपक्षे वचनशब्दोऽधिकरणल्युडन्तः, प्रकृत्यर्थो न विवक्षित इत्याहुः । तथा सति प्राचुर्यविशिष्टान्नाद्यधिकरणं यज्ञ इत्येव बोधः, नतु उच्यमानत्वस्य बोधः । समूहवच्च बहुषु ॥ तत्प्रकृतवचने इत्येव । सामूहिका इति ।। “तस्य समूहः’ इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टषु वर्तमानाच्छब्दात् स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तून्यस्मिन्नधिकरणे उच्यन्ते । तदधिकरणे वाच्ये तद्वस्तुवृत्तेश्शब्दात् समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्ये उदाहरति । मोदकाः प्रकृताः मौदकिकमिति ।। 'अचित्तहस्तिधेनोः’ इति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाष्कुलिकमिति ॥ शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववट्ठक् । प्रकृतिलिङ्गातिक्रमश्च । द्वितीयेऽर्थे मौदकिको यज्ञ इति ॥ मोदका अस्मिन्यज्ञे उच्यन्ते इति विग्रहः । अनन्तावसथेतिह ।। अनन्त, आवसथ, इतिह, भेषज, एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति ।। अन्तो नाशः । तस्याभावः अनन्तः । अर्थाभावे नञ्तत्पुरुषः - अर्थाभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति ।। स्वार्थिकत्वात्प्रकृतिलिङ्गव्यतिक्रमः । आवसथो गृहम् । निपातसमुदायः इति ।। स च उपदेशपारम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः । “पारंपर्योपदेशः स्यादैतिह्यमितिहाव्ययम्” इत्यमरः । भैषज्यमिति ।। भेषजम् औषधम्, तदेव भैषज्यम् । “भेषजौषधभैषज्यानि' इत्यमरः । देवतान्तात्तादर्थ्ये यत् ।। तदर्थ एवेति ॥ तच्छब्देन देवतान्तस्यार्थ उच्यते । तस्मै इदन्तदर्थम् । ततः स्वार्थे वर्णादित्वात् ष्यञित्यर्थः । देवतान्तात्प्रातिपदिकात् यत्स्यात्प्रकृत्यर्थार्थे वस्तुनि वाच्ये इत्यर्थः । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या चेत्युक्तं ‘सास्य देवता’ इत्यत्र । अतः पितृदेवत्यं